पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/२९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य- विवेकानन्दः - पश्यामि – एतेषु मयि च एकमेव परं ब्रह्म, एकैव शक्तिर्महती, केवलं विकासस्यैव न्यूनाधिक्यम् । २८८ सर्वाङ्गळे रक्तसंचालनमन्तरेण कमपि देशं कस्मिन्नपि काले कुत्रापि प्रबोधमायान्तं किमपश्यः ? एकमपि अङ्गं यद्यकर्मण्यं भवति, सबलेष्वपि अन्येषु अङ्गेषु तेन देहेन किमपि महत् कार्यं न सम्पद्यते । एतद् ध्रुवमवेहि ।” स्वामिन आह्वाने सर्व एव देश: प्रतिध्वनितः प्रबुद्धो जातः । दरिद्रान् दुःख-कवलनात् विमोच्य रक्षितुं, स्पृष्टास्पृष्टिपरिहारं विधाय पतितान् सामाजिक बन्धनिर्यातनात् पातुं देशवासिनः प्रबुद्धा जाताः । हृताधिकारे मानवान् पुनः प्रतिष्ठापयितुं स्वामी यत् कार्यमारेभे तस्य देहावसानेन सह न तत् विलुप्तं जातम् । आसीत् स्वामिनः मनसि जातीयमैक्यं एकः गभीरतरचिन्ता- विषयः, यतः, तत्रैव पूर्णरूपेण जातीयमभ्युत्थानं निहितमस्ति । तदे- वैक्यं वेदान्तभित्तौ प्रतिष्ठापनीयम् | वेदान्तः शिक्षयति, यत्, यावन्तः प्राणिनो वर्त्तन्ते, ते सर्वे एकात्मनो विभिन्नरूपा एव । साम्प्रतं जातीय- जीवनेषु यदेतावन्तो विभेदप्रकाराः समुत्तिष्ठन्ते, तत् सर्वमेव केवलमात्म- तत्त्वस्य दैनन्दिनकृत्यविधौ समनुशीलनाभावस्यैव फलम् । भारतीयजातीयजीवने सर्वेषामैक्यसम्बन्धिनी स्वामिनः विचार- धारा सातिशयं मूल्यमावहति, साम्प्रतिकसामाजिकवैषम्यं मारात्मक- जातिभेदः, धर्मक्षेत्रसंघर्षस्य शोकावहः परिणामः, उन्नतावनतेषु दुर्लङ्घय व्यवधानं, स्पृष्टास्पृष्टिनीतिप्रभृतीनि जातीयैक्यसम्पादनस्य महान्ति परिपन्थीनि । एतानेव विषयान् वेदान्तानुगप्रयोगेण सुसंस्कृत्य समाजे प्रवर्त्तयितुं स पक्षपाती आसीत् । तन्मतेन सर्वेषामेव भेदाना- मिदमेकमात्रसमाधानम् । एतेनैव धर्मक्षेत्रे विरुद्धानां भावानां समन्वयः,