पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/२३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२७ युगाचार्य-विवेकानन्दः जीवनों लिखितुं सन्नद्धोऽस्तीति । * स्वामी पृष्टवान् – “श्रीमान् कदा भारतमायास्यति ? यस्तावदस्माकम् ऋषीणां विचाराणां श्रद्धया सह आलोचनामकरोत् तस्याभ्यर्थनां कर्तुं तत्रत्याः सर्वेऽपि सानन्दं सन्नद्धाः । नात्र सन्देहावसरः कोऽपि ।” अध्यापकः सावेगं बभाषे– “तर्हि सम्भवतः नाहं परावर्तिष्ये । मदीयं शरीरं तत्रैव समाधिस्थं कर्तव्यमापतेत् ।” रात्रौ स्वामी यदा वाष्पशकटीविश्रामालये शकटीं प्रतीक्षमाण आसीत् तदा वृद्धाध्यापकोऽयं झञ्झावाताविले कालेऽपि तत्रागत्यो- पतस्थे । तं विलोक्य स्वामी ससंकोचं बभाषे- “अस्मिन्नुपद्रुते वाता-

  • अ.रामकृष्णदेवजीवनस्य उपादानसंग्रहार्थं स्वामिना लन्दनात् रामकृष्णा-

नन्दाय लिखितपत्रस्य एकोंडश एवम्प्रकारेण वर्तते – १८६६ ई० जूनमासस्व २४ तारिकायां—“प्रियशशिन्, श्रीपरमहंसदेवस्य सम्बन्धे मैक्समूलरेण लिखितो निबन्ध: आगामिमासे प्रकाशितो भविष्यति । सः श्रीजीचरणस्य जीवनीं लिखितु अनुमोदनं कृतवान्। स गुरुदेवस्य सर्वाः वाणीः वाञ्छति । सर्वा उक्तीः ससन्निवेशं सन्नाह्य प्रषय । अर्थात् कर्मसम्बन्धे एकत्र, वैराग्यसम्बन्धे परत्र, तथैव भक्ति- ज्ञानादिविषयेऽपि । “त्वया तत्कार्यम् अधुनैवोपक्रमणीयम् । केवलं आङ्गलभाषायां यत् न प्रचलेत् तद् वचनजातं परित्याज्यम् (शौच, मूत्र-थू-थू शरीरस्थानाविष्कार्य स्थानादि ) निजमत्यनुसारं तेषां शब्दानां स्थाने यथासम्भवमन्ये शब्दाः प्रयोक्तव्याः ।... ‘कामिनी-काञ्चने' इत्यत्र 'काम-काञ्चनम्' इति विलेख्यम् (Lust and gold etc ) अर्थात् तेषामुपदेशे सर्वजनीनो भावः प्रकटयितव्यः । इदं पत्रं कस्मै अपि मा प्रदर्श्यताम् । त्वम् इदं सर्व कार्य समाप्य सर्वासामुक्तीनां आङ्गलानुवादं श्रेणीविभागञ्च (classify) विधाय “प्रो० मैक्समूलर, आक्सफोर्ड यूनिवर्सिटी, इङ्गलन्ड" अस्मिन् संकेते प्रेषय ।” स्वामी सारदानन्दं उपादानसंग्रहार्थ ( प्रतिपाद्यवस्तुवृत्तसंकलनाय) नियुयोज | तेन संगृहीतेनोपादानेन मैक्समूलर: “श्रीरामकृष्णस्य जीवनी तथा वाणी” इति नामकं प्रसिद्धग्रन्थं प्रणिनाय | -