युगाचार्य - विवेकानन्दः मङ्कीकृत्य माता न्यगादीत् - "अनेकशः शिरः संवृष्य मया महादेवनिकटे पुत्रो याचितः, किन्तु तेनैको भूतः ग्रहितः । ” बहुशो विमृश्य बालकं शान्तयितुं तयोपाय एक आविष्कृतः । 'शिव' - मन्त्रजपानुष्ठानपूर्वकं तस्य शिरसि जलसिञ्चनेन बालको नितरां शान्तिमापद्यते स्म । कदापि च भयं प्रदर्शयन्ती तं भुवनेश्वरी देवी प्रोवाच – “पश्य बिले, यदि त्वं मौखर्य्यं न त्यक्ष्यसि, तर्हि शिवस्त्वां कैलासं गन्तुं नादेक्ष्यति ।” बालकोऽपि भयचकितः सन् मातुर्मुखम- वलोकयन मौनमाश्रयत् । - - परवर्त्तिनि काले शैशवोपद्रववृत्तान्तं पाश्चात्त्यशिष्येभ्यो निवेदयन्ती भुवनेश्वरी देवी सगर्वं प्रोवाच – “किं वयम्, एतस्य पर्यवेक्षणरक्षणाय द्व भृत्ये सहैवाभ्राम्यताम् ।” सा पुनरप्यगादीत् – “बाल्यकालादेव नरेन्द्रस्याभ्यन्तरे एको महान् दोषः । क्रोधे जाते तस्य हिताहिताव- बोधो नाभवत्, गृहस्य वस्तूनि अत्रोटयदस्फोटयच्च ।”... बिले किञ्चिदवर्धत तृतीयं चतुर्थ वा वर्षं प्राविशत् । पितृभ्यां साकं घोटकशकव्यां भ्रमणाय निगतः । पित्रा पृष्टः – “बिले, त्वं प्राप्त- वयस्को 'भूत्वा कः सम्पत्स्यसे, कथय ।” बिले शिर र्भविष्यामि।” रजतवेष्टितोष्णीषधारी रथचालको नरेन्द्रस्य सन्निधाने विस्मयजनक एको व्यक्तिविशेषोऽभूत् । वेगशालिनोस्तेजस्विनो- द्व योरश्वयोः संयमनपूर्वकपरिचालनं किं साधारणी वार्ता ? उन्नमयन्नुदतरत् – “अहं तोत्रवेत्रवान् सारथि- - -- बाल्यादेव निर्धनान्, दुःखिनः, साधून्, संन्यासिनश्च प्रति नरेन्द्रस्य सविशेषमाकर्षणमभूत् । निर्धनं निरीक्ष्य किचिद् वस्त्वन्तरं नासाद्यासौ स्वधारितं धौतवत्रमेव निष्कास्य तस्मै प्रायच्छत् । तेनैव च तस्य
पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/२०
दिखावट