पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/१८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७३ युगाचार्य- विवेकानन्दः- कृते स यदश्रुमोचनं चकार तस्य प्रत्येकबिन्दुः सार्थको भविष्यति । अगणितहृदयानि स उद्दीप्तानि करिष्यति तथा शतशश्चित्तानि करुणा- तानि विधास्यति । तेषां दरिद्रताया विमोचनं भविष्यति ।... स्वामी खेतडीं अजायन्त | सम्पूर्णे राज्ये आनन्द: शिशवे आशीर्वादान् ददौ समाययौ । राज्ञो हृदये आनन्दतरङ्गा उत्तरला प्रसृतोऽभूत् । स्वामी नवजाताय तथा अन्येभ्यः सर्वेभ्योऽपि आशीर्वादान् व्यतरत् । खेतडीराज्ये कतिपयदिनान्यतिवाह्य स्वामी विदेशयात्रार्थ बम्बई नगरं प्रातिष्ठत* राज्ञः सचिवो जगमोहनलालः साकं समाययौ । स बम्बई- स्थाने समागत्य बहुमूल्यैः काषायवस्त्रैः स्वामिनं विभूषितवान् तथा यात्रायाः सर्वं प्रबन्धं कृत्वा किञ्चिद् वित्तमपि तद्धस्ते विन्यस्तवान् । स्वामिनः काऽप्यापत्तिः तस्य पुरः स्थातुं नाशकत् । मद्रासतः स्वामिनः प्रियशिष्यः आलासिंगपेरुमलोऽपि आजगाम | पी० एन्ड ओ० कम्पनी इत्यस्या: पेनिनसुलर नाम्नि पोते प्रथमश्रेणी- प्रवेशपत्रं क्रीतमासीत् । १८६३३ ई० मईमासे ३१ तारिकायां पोतः प्राचलत् || जगमोहनलालस्तथा आलासिंगश्च स्वामिनं पोते आरोहयितुं

  • स्वामिनः पत्रावल्यामेवं लिखितं – २७ अप्रैलमासे १८६३ ई० वत्सरे

स्वामी खेतडीराज्यात् नञ्जण्डूरायाय पत्रं प्रोषितवान् । तेन प्रतीयते स ततः पूर्वमेव खेतडीं प्राप एवं पुनः १८६३ ई० वत्सरे २२ मईमासे बम्बईनगरात् प्रधानामात्याय पत्रं व्यसृजत् । अर्थात् ततः प्रागेव स बम्बईपुरं प्राप्त आसीत् । ३१ मईमासे सामुद्रपोतमारुह्य यात्रामकरोत् । + स्वामिविवेकानन्दस्य समुद्रयात्रा एका विशिष्टा गुरुत्वपूर्ण घटना आसीत् । अस्याः सम्बन्धे १६०६ ईसवीये 'कर्मयोगिन्' पत्रे श्रीमानरविन्द आलिखत् "विवेकानन्दस्य विदेशयात्रया सर्वप्रथममिदमेव सुस्पष्टतया सूचितं भवति– भारतं केवलं जीवितुं न प्रबुद्धम् प्रत्युत श्राध्यात्मिकभावधारया संसारं विजेतुं भारतेन प्रशंसनीया भूमिका ग्राह्या भविष्यति ।” 12