पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/१८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य-विवेकानन्दः आलोकशिखां प्रज्वालितवान् | तस्य धर्मानुरागः, त्यागः तथा ज्वाला- मयी वक्तृता च हैदराबाद निवासिनाम् अन्तरे गभीरं प्रभावं निहितवन्तः । फरवरीमासस्य सप्तदशे दिवसे स्वामी मद्रासं पराववृते । तेन प्रज्वलितं भारतप्रेम मद्रासवासिनाम् अन्तरे आकुलं प्रतिध्वनिमुद्भाव- यामास | तस्य प्रेम विपुलं बभूव । स्वामिनं केन्द्रीकृत्य मद्रासवासिभिः एकं बृहद् दलं संघटितमासीत् । ते जनाः स्वामिनो जीवनस्यान्तिम दिनपर्यन्तं तस्मिन् पूर्णरूपेण अनुरक्ता आसन् । , समालोचना युष्माकं बद्धमूलोऽभ्यासः अस्ति । किन्त्वहं पृच्छामि तासामुन्नत्यर्थं युष्माभिः किं कृतम् ? · परन्तु एवं मा विचारयत यत् जगजनन्या आद्याशक्तेः प्रतिमूतींनां नारीणामवस्थाया उन्नतिमकृत्वैव युष्माकमग्रगतेः कोऽप्यन्यः उपायः अस्तीति ।” शारीरिकदुर्बलता, आत्मविश्वासस्य अभावः तामसिकता, कर्मबिमुखता, तथा स्वावलम्बनम् आज्ञानुवर्तिता-मानवप्रीति-सङ्घटन-शक्तीनां नितान्ताभावः, एतदभिमुखं स्वामी देशवासिनां दृष्टिमाकृष्टां अकरोत् । स सखेदमभाषत “वस्तुतो वयम् अलसाः, कर्मविमुखाः, संहतेः साधने असमर्थाः भ्रातृप्रेमवर्जिताः एवं स्वार्थान्धा मनुष्याः स्मः । वयं परस्परं घृणां हिंसां वा अकुर्वन्तः न्यूनातिन्यूनं त्रयोऽपि जनाः सम्मिलिता भवितुं न शक्नुमः ।... संघटनशक्तिः अस्माकं प्रकृती सर्वथा नास्ति, किन्तु सा शक्तिः अस्माकं जीवने अनुप्रविष्टा कार्यैब।”...

  • "उद्बोधन कार्यालयात प्रकाशिते स्वामिनः पत्रावली प्रथमभागस्य षष्टितमे

पत्रे सन्दृश्यते यत् स फरवरीमासस्य- एकविंशे ( १८६३ ई० ) दिने हैदराबादतः सच्चिदानन्दनामकं निजमद्रासशिष्यमालासिंग प्रत्यलिखत् – “कतिपयदिवसा- - भ्यन्तर एव द्वित्रदिनानां कृते मद्रासं समेत्य युष्माभिः सह सम्मिलिष्यामि । पुनस्ततः बेंगलूरं गमिष्यामि ।” एतेन प्रतीयते यत् स २१ फरवरीदिनात्परतः मद्रासं जगाम |