पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/१७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६१ युगाचार्य - विवेकानन्दः - "स्वामिन् भवच्चरणकमलयोरर्चनां करिष्यामि ।" किन्तु स्वामी केनापि प्रकारेण नान्त्रमोदत | महाराजः महार्घान् उपहारान् दातु- मैच्छत्, परन्तु स किमपि न प्रत्यग्रहीत् | स्वामी प्रावोचत् – “अहं प्रतिज्ञामकार्षम् यत् परिव्राजकावस्थायां धनस्य स्पर्श न विधास्यामि – किमपि सञ्चित्य न स्थापयिष्यामि । अहं साधारणसंन्यासी अस्मि । उपहारं गृहीत्वा किं करिष्यामि ? कुत्र निधास्यामि ?” - परन्तु राजा नाङ्गीचकार, तदा स्वामी महाराजस्य संतोषार्थं प्राह — “वरम्, तदा धातुसम्पर्करहितां साधारण धूम्रपाननलिकां ददातु महाराज: ।” महाराजः 'रोज' दारुनिर्मिताम् एकां धूम्रपान-नलिकां समानाय्य उपहारस्थाने स्वाभिमहाभागाय प्रददौ । गमनात्पूर्व प्रधानमन्त्री स्वामिनो हस्ते एकं कर्गजमुद्राचयं (नोटबंडल ) निर्बंध प्रावेशयत् । परन्तु स्वामी तन्न प्रतिजग्राह | पर्यन्ते स्वामी प्राह—“कोचिन पर्यन्तमेकं वाष्पयानप्रवेशपत्रं (टिकट) क्रीत्वा दीयताम् । तत्र द्विचतुर्दिनानि कदाचित् निवत्स्यामि ।” एकं द्वितीय श्रेणीप्रवेशपत्रं तथा कोचिनस्य तात्कालिक प्रधानामात्यस्य श्रीशङ्करय्यरस्य नाम्ना परिचयपत्रमेकं मैसूरप्रधानमन्त्री स्वामिमहोदयाय प्रायच्छत् । ११ –:-*-: