पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/१६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५९ गञ्चात्यन्तसारल्येन सर्वानवगमयामास दृष्टः प्रसारिता तथा प्रकटनशक्तिश्च अभूवुः ।। युगाचार्य- विवेकानन्दः । तदीयविचारस्य मौलिकता सर्वेषामुच्च प्रशंसाया विषया स्वामिनोऽद्भुतमपरिग्रहं विलोक्य जनाः चकिता जाताः । एक- स्मिन दिने प्रधानामात्यः निजसचिवमादिशत् - "स्वामिनमादाय विपणिं याहि । यद् यद् वस्तु तस्मै रोचेत, कियदपि तस्य मूलं भवेत्, तत् क्रोणीहि ।” स्वामी विपणिमयासीत् । बालकवत् भ्रामं भ्रामं सर्वमपश्यत्, परं किमपि वस्तु स नाक्रोणात् । सचिवेन क्रेतुमाग्रहे क्रियमाणे सोऽवोचत् – “वरं, यदि भवान् म मुञ्चति, तदा एकां धूम वर्ति ( सिगरेट ) क्रीणातु ।” , महाराजः दिनानुदिनं स्वामिनं प्रति गाढश्रद्धासम्पन्नोऽभवत् । एकस्मिन् दिनेस प्रधानामात्येन सह स्वामिनं निजकक्षामामन्त्र्य सादरमुपावेशयत् तथा न्यवेदयत् “यतिवर! अहं भवतः सेवां कर्तु- मभिलपामि । तमधिकारं मह्यं दत्वा मां धन्यं करोतु ।” विवेकानन्दस्वामी स्वोद्देश्यं प्रकटयन् आह— “देशस्य कार्यमेव मम कार्यम् । अकिञ्चनानां सेवैव मामकीना सेवा अस्ति । श्रीमान् देशस्य सेवां तनोतु, देशं समुन्नतं तथा समृद्धं करोतु । तेनैवाह प्रसन्नो भवेयम् । श्रीमान् राजा अस्ति, साधारणजनानां समुन्नयनस्य शक्तिः श्रीमति वर्तते । निर्धनानां दारिद्रयम् एवमज्ञानञ्च विलोपयतु । सम्पत्तौ तथा शिक्षा-दोक्षायां देशवासिनां समुन्नतिं सम्पादयतु ।"तदनन्तरं स्वामी पुनरूचे– “अहं मन्ये यदस्माकम आध्यात्मिकभावं- वेदान्त- धर्मं पाश्चात्त्याः शिक्षणीयाः तथा तस्य विनिमये पाश्चात्त्येभ्यः कृ षः शिल्पं विज्ञानं तथा ऐहलौकिकोन्नतये यदप्यावश्यकं भवेत् तत् सर्व अस्माभिः शिक्षणीयं भविष्यति । एवं प्राच्य पाश्चात्त्य सभ्यतयोः सम्मे- लनेन नवीनायाः सभ्यताया उद्भवो भविष्यति । तेनैव संसारस्य - Q