पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/१६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य - विवेकानन्दः सोऽब्रवीत् "प्रत्येकयुगे संन्यासिन एव संसारस्याध्यात्मिकभावधारां सवलां तथा अण्णां व्यतन्वन् । बुद्धः कसी ? शंकरश्चकः अवर्तत ? तेषामाध्यात्मिकमवदानं भारतवर्षम् अस्वीकर्तुं न प्रभवति ।" अचिरादेव तस्य मुखात् गम्भीरस्य दार्शनिकतत्त्वस्य धर्म-क्रम- विकासस्य तथा देश-विदेशेतिहासस्य सम्बन्धे अनेकविधं वक्तव्यमा- कर्ण्य सर्वेऽपि स्तब्धा अभूवन् । स्वामिनः विशुद्धाङ्गलभाषाया अद्भुत प्रतिभायाश्च समक्ष श्रोतृणां मस्तकं स्वयमेव विननाम | लोकमान्य- तिलक: स्वामिनो गम्भीरपाण्डित्येन सविशेषं मुग्धोऽभूत् । पूना- वाष्पयान- विश्रामालये अवतरणवेलायां सः स्वामिनं निजगृहं गन्तुं समामन्त्रयत । अस्मिन् समये विवेकानन्दः तिलकेन साकं कानिचन दिनानि पूनानगरेऽवसत् । तस्य पाण्डित्यं, गम्भीरा बुद्धिशक्तिः, स्वदेशानुरागः एवं दोनदुःखिषु समवेदना च तिलकस्य मनसि प्रगाढ प्रभावमापादयामासुः। देशमातुः मुक्तिसाधनस्य नूतनं मन्त्रं स स्वामि- मुखात् शुश्राव । १५७ - तस्मिन् समये लिमडीराजः महाबलेश्वरेऽस्तीति ज्ञात्वा स्वामी तेन सह सङ्गन्तुं ययौ । अप्रत्याशितरूपेण गुरुदेवं प्राप्य राजा सुतरामा- नन्दितोऽभूत् । स्वामिनं निजराज्यं नेतृम इच्छायां प्रकटितायामेव स्वामी तं जगाद -- 'एका महाशक्तिः मां परिचालयन्ती वर्तते मम गुरुदेव: ममोपरि यस्य महाकार्यस्य भारं न्यस्तवान् तस्य परिसमाप्ति- पर्यन्तं विश्रासग्रहणस्य नास्त्यवकाशः । “जीवने कदाऽपि विश्राम- ग्रहणस्थावकाशे प्राप्ते भवता सह निवास करिष्यामि ।” स्वामी निज- जीवने तादृशमवकाशं कदापि नैवाप । अन्तिमदिनपर्यन्तं स अवि- श्रान्तं कर्म कुर्वन्नेव न्यवसत् । अथ विवेकानन्दस्वामी क्रमशः कोल्हापुरं मरमागोवां तथा बेल- गाँवं गत्वा मैसूरराज्यान्तर्गतं बेंगलूरनगरं समाययौ । प्रच्छन्नरूपेण