युगाचार्य - विवेकानन्दः जना भवतः प्रत्येकवचनानुसारं उपविशन्ति तथा उत्तिष्ठन्ति । भवान् झंझावात इव पाश्चात्त्यदेशेषु आक्रमणं करोतु तथा तेषु देशेषु विजयं लब्ध्वा प्रत्यागच्छतु ।” १५१ स्वामी कतिचित् क्षणान् तूष्णीं स्थित्वा उवाच – “पण्डित- महोदय ! एकस्मिन् दिने प्रभासस्य सामुद्रे तटे स्थित्वा क्षितिजोपरि दृष्टिं निधायाहं तरङ्गमालाया अनुपमां क्रीडां पश्यन्नासम् । सहसा मम तथाऽनुभवोऽभूत् अस्य विक्ष व्यतरङ्गमालाया अतिक्रमणं कृत्वा मया सुदूरदेशे गन्तव्यमस्ति, परन्तु कथमिदं सम्भवं भविष्यति इत्यहं ज्ञातुं नाशकम् ।” यथासमयं पण्डितस्य भविष्यवाणी वास्तवरूपेण परिणता बभूव ।... तस्मिन् समये भारतस्योन्नतये तस्य मानसं कियदवधि व्याकुलं भवति स्म तत् कोऽपि राजपुरुषः किं वा शिक्षितव्यक्तिः तेन सह किंचित्समये वार्तालापं कृत्वैव ज्ञातुं प्राभवत् । तस्य हृदयस्य तन्त्र्यां सर्वदा एक एव स्वरः अवाद्यत - 'भारतस्य कल्याणम् ।' आर्यसभ्यतायाः पुनरुत्थानस्य गम्भीरा चिन्ता तस्यान्तरं विक्षुब्ध- मकरोत् । पाश्चात्त्यसभ्यताया मोहपंकात् भारतस्योद्धारसाधनचिन्ता तम् इयधिकं व्यथितमकार्षीत् यत् करुणाया आवेगेन समये समये स रुरोद | स अन्तरस्यान्तस्तले अनुभवमकरोत् – “भारतभूः संसारस्य धर्मजननी अस्ति तथा आध्यात्मिकभावस्य एवं मानवसभ्यतायाः आदिजन्मभूरपि विद्यते ।" भारतं जगत्सभायाः श्रेष्ठे आसने उपवेश- यितुं तस्य हृदयं पर्याकुलमासीत् । पाश्चात्यदेशेषु गमनानन्तरं भारतस्य महत्त्वं स इतोऽपि गम्भीरतया उपलब्धं चक्रे । न्यूयार्कतः जनवरी- चतुर्विं शदिने (१८६५ ई०) स एकस्मिन् पत्रेऽलिखत्– “परश्शतानाम् अपूर्णतानां सत्त्वेऽपि भारतभूमिरेव एकमात्रं स्थानमस्ति यत्र आत्मा मुक्तः तथा भगवतः सन्धानं लभते । पाश्चात्त्यानां बाह्याडम्बरः सर्वथा- ऽन्तःसारशून्य एवम् आत्मनः बन्धनस्वरूपोऽस्ति ।” पाश्चात्त्यानां
पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/१६१
दिखावट