पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/१४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य - विवेकानन्दः तस्मिन्नेव समये स्वामी वज्रगम्भीरध्वरेण प्रोवाच - ‘किमेतत् ? एतत्तु केवलमेकं कर्गजमात्रमस्ति, अत्र थूत्करणे भवतामेतावान् कथं / संकोचः ?” १३१ 1- दीवानो भयविह्वलो जगाद - "स्वामिन, भवान् किमाज्ञापयति ? इदन्तु मम पूज्यस्य महाराजस्य चित्रमस्ति >> तदा स्वामी महाराजं सम्बोध्य जगाद "पश्यतु महाराजः, यद्यपि चित्र तो भवान् पृथक, परन्तु अत्र दृष्टेः पातेनैव भवतः मृतिर्हृदय- पटले प्रतिफलिता जोयते अतः महाराजवत् एतस्मै चित्रायापि सन्मानं दीयते । अतो भगवद्भक्ताः प्रस्तरादि-निर्मितमूर्त्तिमपि भगवद्बुद्ध्या प्रतीकज्ञानेन पूजयन्ति । पूजेयं भगवत एव समर्चा, मूर्त्तेः पूजेयं नास्ति । एतदेव प्रतीकोपासनाया: सार आस्ते । मूर्तिपूजकः कदाप्येवं न वक्ति "हे प्रस्तर ! अहं तव उपासनां करोमि ।” ब्रह्म चिन्मयं विभु- रूपम् ! तत्त प्रतिमायामपि विद्यते । प्रतिमा तस्य चिन्मयस्य भगवतः स्मरणं कारयति । अतो भक्ता मूर्त्तिमवलम्ब्य भगवन्तं पूजयन्ति, तत्पूज्ञां भगवानङ्गीकुरुते च । " - महाराजस्तन्मयो भवन् स्वामिनो वार्त्ता शुश्राव । तस्य वचने समाप्तिं गते करौ बद्ध्वा महाराजः प्रोवाच - "स्वामिन्, भवता यत् किमपि प्रतिपादितं तत् अक्षरशः सत्यम् । अहमिदानीं यावदज्ञानान्ध- कारे निमग्न आसम्, मया न किंचिदवधारितम् | भवताद्य मदीये नयने उन्मीलिते । भवान् मयि कृपां करोतु ।” ९ स्वामिना प्रोक्तं राजन्, ईश्वर-व्यतिरिक्तः न कोऽपि कृपां कतु शक्नुयात् । असावपार कृपा-सिन्धुः । अहमपि तस्यैव शरणं गतोऽस्मि । भवानपि तस्यैव शरणं गृह्णातु | भवतः कल्याणं संपत्स्यते - इत्युक्त्वा स्वामी उदतिष्ठत् । - स्वामिनो गमनानन्तरं महाराजः दीवानमुवाच – “दीवानमहोदय, एतादृशो महात्मा पूर्वं मया न दृष्टः । येन केन च विधिना भवेदिमं कानिचिद्दिनानि अत्र भवान् स्थापयतु ।” महाराजस्याभिप्रायमवगत्य