पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/११७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य - विवेकानन्दः स्वामी महादयः शक्तेमूर्त्तविग्रहधारी । तस्याभ्यन्तरे एक: पुरुष- सिंहो अवसत् । निष्क्रियतां प्रति तस्मिन् प्रचण्डा घृणा समविद्यत । तेन प्रोक्तम्–“बिश्रामो मदर्थं नास्ति । अहं परिश्राम्यन्नेव शरीरं त्यक्तुमिच्छामि । अहं कार्याय स्पृहयामि । जीवनसंग्रामे सर्वदैव विशेषतया अस्माभिः कार्ये संलग्नैर्भवितव्यम् ।” भारतीयजीवनस्य वर्तमानावनतिकृतेऽसौ कर्मवैमुख्यमेव कारणमवादीत् । अतो भारतं प्रति इयमासीत् तस्य वाणी- “सर्वतः पूर्व शक्तिशालितां प्रपद्य पौरुषमालम्बस्व | " १०७ स्वामी महोदयो बराहनगरे स्वीयान् गुरुसोदरान् तेनैव भावेन संघटितान् कर्तुं व्रतमगृह्णात् । ध्यानेन, भजनेन च साकं सेवामूलकं कार्यं स्वाध्यायं च मेलयित्वा स नूतनं संन्यासिसंघ मे कम सृजत् । स्वामी विवेकानन्द आन्तरिकैकांतप्रदेशे विवेकस्याह्वानमाकर्णयितु प्राभवत् । तेनावाबुध्यत यद् विश्वमपि प्रकम्पयितृ विराट् कर्त्तव्यं तस्य प्रतीक्षां विधत्ते । तदीयविचाराभ्यन्तरे प्रतिभासिता अभूवन्- नवयुगस्योन्मादना, पाश्चात्त्यसभ्यतायाः सर्वग्रासिनी बुभुक्षा, तत्फल - स्वरूपदुःखवेदना, चतसृभ्यो दिग्भ्यः समुत्थितोत्पीड़ितमानवताया मूकमावेदनम्, भारतस्यातीताभ्युदयस्य तथा भविष्यत्समुत्थानस्य , पत्रिकाया १६०६ ईसवीये वर्षे समुल्लिलेख – “यश्च पूर्णां युगप्रवर्त्तकः, अतीतावतारसमष्टिरूप आसीत् तेन भारतं न दृष्टम्, तत्सम्बन्धे वा किमपि न कृतम्, इति विषये नास्माकं विश्वासः । स हि भविष्यद्भारतस्य प्रति- निधिं स्वाभिमुखमुपवेश्य संघटितमकरोत् । असौ किल भविष्यद्भारतस्य प्रति- निधिरासीत् स्वामी विवेकानन्दः ।... स्वामिनो विवेकानन्दस्य स्वदेशप्रेम तदीयपूज्यपादगुरुदेवस्यैव दानमभूत् । श्रीरामकृष्णेन परिज्ञातमिदं यत् तस्या- भ्यन्तरे यः शक्तिसञ्चारः क्रियते, तदुद्भिन्नप्रकाशेन यथासमयं समस्तोऽपि देशः प्रखरसूर्यकिरणजालेन समावृतो भविष्यति ।”