पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/१०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बराहनगरमठं प्रतिष्ठितं निभाल्य स्वामिना कथंचित् सान्त्वना समधिगता | तदीया गुरुभ्रातरः प्रायशस्तीर्थाटने निरगच्छन् । किन्तु बराहनगरमठ एव तेषां स्थायि केन्द्रमासीत् - यत्र परिश्रान्ताः पक्षिण इव ते प्रत्याययुः । स्वामिनोऽन्यतमगुरुभ्राता स्वामी शिवानन्द एकदा प्रोवाच – “यद्यपि वयं परिव्राजकरूपेण तपसे तीर्थाटनाय च निरगच्छाम, तथाप्यास्माकीनं मनो बराहनगरमठे 'आत्मारामं' केन्द्रीकृत्यातिष्ठत् ।” पूर्व स्वामी महाशयः कांश्चिद् दिवसान् वैद्यनाथ शिमुलतलाप्रभृति- स्थानेषु जगाम, पुनरसौ बराहनगरं प्रत्याययौ । किन्तु १८८८ ईसवीये सहसाऽसौ परिव्राजकरूपेण निरगमत् । वाराणसीम्, अयोध्यां, लक्ष्मणपुरम्, आगरां, वृन्दावनं, हाथरसञ्च पर्यटन् हिमालयस्यो- पत्यकायां हरिद्वारे हृषीकेशे च गतवान् । परन्तु शारीरिक्या अस्व- स्थतया गुरुसोदराणां विशेषानुरोधवशात् च बराहनगर निववृते ।. भ्रमणेनैतेन तेन बहु शिक्षितम् । तस्य चेतसि भविष्यत्कर्मपद्धतेरेकं सक्रियरूपं संघटितमभूत् । साधारणसंन्यासीवासौ कपर्दकविहीनो दण्डकमण्डलुधारी संन्यासिवेशे भ्रमणमकार्षीत् । भिक्षान्न एव सौ पूर्णतया निर्भरो बभूव । कदा कदापि च शरीररक्षायै यथेष्टं भोजनमपि तेन नालभ्यत । काइयां निवासता तेनैका महती शिक्षा समधिगता । एकस्मिन् दिनेस श्रीदुर्गामन्दिरे दर्शनार्थमगच्छत् । तत्र बहवो वानरास्तदु- पर्याक्रमणार्थमधावन् | उपायान्तरमनवलोक्य असावेकतः पलायन-