पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५०
यादवाभ्युदये


तनुमध्या विशालाक्षी तन्वी पीनपयोधरा ।
मायेव महती तस्य वनितारत्नरूपिणी ॥ ८७ ॥

तनुमध्येति । तन्वी तन्वङ्गी । तनुमध्या मध्यभागे ततोऽपि तना- यसी । विशालाक्षी दीर्घलोचना । पीनपयोधरा पीवरस्तनी । वनितारत्न वनितोत्तमा, रत्न स्वजातिश्रेष्ठऽपि' इत्यमरः । तद्रूपमस्या अस्तीति तथोक्ता । तस्य भगवतो महती मायेव स्थिता। अतिमोहनरूपेण 'मूर्ता विष्णोर्महामाया' इत्युत्प्रेक्षणीया । ववन्द इति पूर्वेण सबन्धः ॥ ८७ ॥

आबद्धमण्डलैर्भृङ्गैरलकामोदमोहितैः ।
अयनलब्धां बिभ्राणा मायूरच्छत्रसंपदम् ॥ ८८ ॥

आबद्धति । अलकाः कुटिलकेशाः । अलकाश्चूर्णकुन्तलाः ।' इत्य- मरः। तेषामामोदेन सौरभेण माहित. परवशीकृते । अत एव, आबद्धमण्डलैः उपरि मण्डलमाबध्य भ्रमद्भिः। भृङ्गैः । अयत्नेन लब्धाम् , मायूरच्छत्रस- पद मयूरपत्रकृतातपत्रशोभाम्। विभ्राणा। शोभार्थेऽपि प्रयुज्यन्ते लक्ष्मी- श्रीकान्तिसपदः ।' इति हलायुधः । अत्र राजमहिषीणामुचित मयूर- च्छत्रधारण भृङ्गैः सपादितमिति भिन्नविभक्तिनिर्दिष्टानां भृङ्गाणां मायूर- छत्ररूपेण परिणामान्यधिकरणपरिणामालङ्कारः॥ ८८ ॥

प्रियसंदर्शनानन्दजनितैरश्रुविन्दुभिः ।
न्यस्तमौक्तिकनैपथ्यैः परिष्कृतपयोधरा ॥ ८९ ॥

प्रियेति। प्रियस्य सन्दर्शनात् यः आनन्दः तेन जनितैः। न्यस्तमौक्ति- कनैपथ्यैः निवेशितमौक्तिकाभरणैः । अश्रुबिन्दुभिः। परिष्कृतपयोधरा । अत्र