पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४४
यादवाभ्युदये

खाघ्रिसौरभदिग्धेन वहनकालसंकान्तभंगवञ्चरणामोदरूषितेन । श्रुति- रूपेण वेदरूपेण । वाहेन सुपर्णेन । 'सुपर्णोऽसि गरुत्मान् त्रिवरी शिरः' इत्यादिना तस्य वेदमयत्वश्रुतेः । दत्तसग्रामदोहल दत्तयुद्धाभिलाषम् । गरुडदर्शनादेव सनातदैत्ययुद्धाभिलाषमित्यर्थः । 'दोहल दोहदं छन्दः' इति इच्छापर्यायध्वमरशेषः ॥ ७२ ॥

स्ववेत्रस्पन्दनिस्पन्दनेतव्येन निवेदितम् ।
भक्तिनम्रेण सेनान्या प्रतिशृण्वन्तमिङ्गितैः ॥ ७३ ॥

स्ववेत्रेति। स्ववेत्रम्य करधृतस्य स्पन्देन चलनेन निस्पन्दाः

निश्चलाः नेतव्याः देवमाप प्रापणीयाः यस्य तेन, देवाय तत्तत्कार्य निवेदायतु नत्ममीप नीयमानान् अहमहमिकयोपर्युपर्यापततः तद्वारणा- याज्ञासामर्थ्यात् स्ववेत्रचलनमात्रेण निश्चलीकुर्वतेत्यर्थ. । निस्पन्देति पाठः, षत्वलक्षणाभावात् । उक्तञ्च वामनेन 'निष्पन्द इति पत्व चिन्त्यम्' इति । भक्तिनम्रेण भक्त्या प्रह्वेन । सेनान्या विष्वक्सेनेन । मिवे. दितं विज्ञापितं प्रयोजनम् । इङ्गितैः भ्रूमज्ञाभिः । प्रतिशृण्वन्तं दास्या- मीति प्रतिजानन्तम् । प्रतिपूर्वकश्रुधातुर्याचितार्थदानप्रतिज्ञावाची। अत्र प्रभोनिकटे वेत्रधरक्रियास्वभावस्य प्रभोनिवेदिनार्थप्रतिश्रवक्रियास्वभा- वस्य च सूक्ष्मस्य वर्णनात् स्वभावोक्तिरलङ्कारः ॥ ३ ॥

अनपायं तमादित्यमक्षयं तारकाधिपम् ।
अपारममृताम्भोधिममन्यन्त दिवौकसः ॥ ७४ ॥

अनपायमिति । दिवौकसः। तं भगवन्तम् । अनपायं आदित्यं अस्तमयरंहितं सूर्यम् । अक्षयं तारकाधिपं क्षयरहितं चन्द्रमसम् । अपारं अमृताम्भोधिं पाररहितं सुधासमुद्रं च अमन्यन्त । देवस्पातिश-