पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२४
यादवाभ्युदये


प्रसूनेत्यत्र रूपकसमासः, सौरभानुगुण्यात् । तदुत्थापितं च विबुधादिशब्दैः श्लिष्टरूपकमिति श्लिष्टाश्लिष्टरूपकद्वयसकरः ॥ २६ ॥

वंशे समभवत्तस्य वसुदेवः क्षितीश्वरः ।
जनकः प्राग्भवे योऽभूद्देवदानवयूथयोः ।। २७ ।।

वंश इति। तस्य यदोः। वशे । वसुदेवः क्षितीश्वरः वसुदेवाख्या राजा। समभवत् संभूतः । यः । प्राग्भवे पूर्वजन्मनि । देवदानवयूथयोः देवानां दानवानां च समूहयोः। यूथ तिर्यक्समूहेऽपि बृन्दमात्रेऽपि भाषितम् ।' इति विश्वः । जनकोऽभूत् पिता बभूव । पुरा किल काश्यपः सुरभेरदितेश्च स्वपल्योरनुरोधेन वरुणस्य यज्ञगवीर्हत्वा ब्रह्मणश्शापात् रोहिणीदेवकी- रूपाभ्यां ताभ्यां सह स्वय वसुदेवरूपेण मनुष्यलोके जात इति हरिवशे कथा ॥ २७ ॥

आनकानां च दिव्यानां दुन्दुभीनां च निस्वनः।
सह जातं यमाचख्युराख्ययानकदुन्दुभिम् ॥ २८ ॥

.

आनकानामिति । आनकानां पटहानाम् । दुन्दुभीनां भेरीणां च । 'आनकः पटहोऽस्त्री स्याद्रेरी स्त्री दुन्दुभिः पुमान् ' इत्यमरः । निस्वनैः ध्वनिभिः । सह जातम् । य वसुदेवम् । आख्यया नाना । आनक- दुन्दुभिम् , आचख्युः अकथयन् । वृद्धा इति शेषः ॥ २८ ॥

तेन निर्मलसत्त्वेन विनिवृत्तरजस्तमाः।
जगती शान्तमोहेव धर्मोच्छ्वाासवती बभौ ॥ २९ ॥

तेनेति । निर्मलं अकला सत्वं सत्वगुणो यस्य तेन । तेन वसुदेवेन हेतुना । विनिवृत्तरजस्तमाः अपगतरजस्तमोगुणा । तेन का विनिव