पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१७
प्रथमः सर्गः।


नरेन्द्राः पृथिवीचक्रे नामचिह्नैरलंकृताः ।
जङ्गमास्तस्य वीरस्य जयस्तम्भा इवाभवन् ॥१४॥

नरेन्द्रा इति । वीरस्य तस्य नहुषस्य । नामाचह्नः तन्नामधारणरूपैः तनिर्जितत्वचिह्नः । अलकृताः । नरेन्द्राः प्रतिपार्थिवाः । पृथिवीचक्रे भूम- ण्डले । 'चक सैन्ये जलावर्ते रथाङ्गे नयराष्ट्रयोः । ससारे मण्डले वृत्ते छिद्रभेदास्त्रभेदयोः' इति वैजयन्ती। जङ्गमाः सम्बारिणः । जयस्तम्भा इवाभवन् । जयस्तम्भा अपि जेतृनामाक्षरलेखनरूपैश्चिह्नरलकृता भवन्ती- ति भावः । अत्र नरेन्द्राणां नामचिह्नितत्वरूपगुणनिमित्तेन जङ्गमजयस्त- म्भसभावनारूप स्वरूपोत्प्रेक्षालङ्कारः ॥ १४ ॥

शक्तिरप्रतिघा तस्य शात्रवैरपि तुष्टुवे ।
यथावत्साधकस्येव यावदर्था सरस्वती ॥ १५ ॥

'शक्तिरिति। तस्य नहुपस्य । अप्रतिघा प्रतिघातेन रहिता । सर- स्वतीपक्षे रुहिता । 'प्रतिवो रुट्प्रतीघातौ' इन्युभन्यत्र वैजयन्ती । शक्तिः बलम् । शात्रवैः प्रतिभूपतिभिरपि । तुष्टुवे स्तुता । कर्मणि लिट । यथावत् सम्यक् । साधकस्य स्वमतव्यवस्थापकस्य वादिन. । यावदर्था समग्रार्थी प्रतिपादनीयाशेषार्थप्रतिपादिका । सरस्वतीव । इहापि हि अनाग्रहमुपन्यम्यमानकथायां निग्रहभिया स्फुटमस्तुवद्भिरपि प्रतिवादि- भिरनन्तरं वादी स्तूयत एव । उपमालङ्कारः ॥ १५ ॥

वीरो रस इवोत्साहान्नहुषादभ्यजायत ।
ययातिर्नाम येनैन्द्रमर्धासनमाधिष्ठितम् ॥ १६ ॥

वीर इति। नहुषात् । ययाति म ययातिरिति प्रसिद्धः। 'नाम