पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२
यादवाभ्युदने

विहाय तदहं ब्रीडा व्यासवेदार्णवास्तम् ।
वक्ष्ये विबुधजीवातुं वसुदेवसुतोदयम् ॥ ८ ॥

विहायेति । तत्तस्मादुक्तहेतोः । अह ब्रीडां यत्किञ्चिदवलम्ब्यापहसि- ध्यन्तीति त्रपम् । विहाय। व्यासवेदार्णवामृत व्यासवेदो महाभारतं तदेवा- र्णवः तस्यामृत अमृतवत् सारभूतम् । विबुधा विद्वांसः त एव विबुधा देवाः इति श्लिष्टरूपकम् । तेषां जीवातु भक्त जीवनौषधं च । देवानां भक्तममृतम् , प्रबन्धो विदुषाम् । हृदयाप्यायनत्वादुपचारात् । 'जीवातुर्जीविते भक्ते जीवातुर्जीवनौषधम् ।' इति विश्वः । वसुदे- वसुतस्य कृष्णस्य उदयमभ्युदयम् । वक्ष्ये अभिधास्ये वर्णयिष्य इत्यर्थः । ब्रुवो वविरात्मनेपदी । अत्र व्यासवेदार्णवामृतमिति विबुधजी- वातुमिति च श्लिष्टाश्लिष्टशब्दनिबन्धनरूपकद्वयसङ्करः॥८॥

क्रीडातूलिकया स्वस्मिन् कृपारूषितया स्वयम् ।
एको विश्वमिदं चित्रं विभुः श्रीमानजीजनत् ॥ ९ ॥

अथ ‘यदोवंश नरः श्रुत्वा सर्वपापैः प्रमुच्यते । यत्रावतीर्ण कृष्णाख्य पूर्ण ब्रह्म नराकृति ॥' इति यदुवशश्रवणस्य परमपावनत्वस्मरणात् किञ्चि- द्यदुवंशपरम्परावर्णनपूर्वक भगवचरितविवक्षया प्रथम यदुवशकूटस्थस्य चन्द्रमसः पुरुषसूक्तप्रक्रियया पुरुषोत्तमस्य मानसादुत्पत्त्यभिधित्सया तदुपोद्धातत्वेन भगवता पुरुषोत्तमेन सर्वमिद जगत्सृष्टमित्यर्थं तावदाह- क्रीडेति । विभुः निखिलजगत्सृष्टिपालनसहारानुकूलविविधशक्तियोगात् निरतिशयवैभवः । श्रीमान् नित्ययोगे मतुप्। अनपायिन्या श्रीमहालक्ष्म्या नित्ययुक्तः पुरुषोत्तमः । एकः सहायान्दरनिरपेक्ष एव । इदं विश्वं जगतू समस्त वा । 'विश्व समस्तजगतोः' इति विश्वः, चित्रमाश्चर्यभूतं तदेव