पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
यादवाभ्युदये

चतुष्टयेनानुसहिताः। तत्र गोवत्सानुचर्यारूपबृन्दावनसञ्चारप्रतिपादकेनाद्य- वेशेषणेन तिर्यग्जातिसाधारणं तस्य वात्सल्य व्यज्यते । निखिलवनिता- जनमूर्द्धन्यश्रीमहालक्ष्मीनिरन्तराश्लेषनित्यतृप्तस्य पामरजातिस्त्रीजनस- श्लेषः सौशील्यैककृत इति द्योतयितुमेव द्वितीयविशेषणे वल्लवीति डीषा तासां गोपजातीयन्वमुक्तम् । जनशब्देनापि पामरत्ववाचिना सौशील्यमेव स्थिरीक्रियते । “जनो लोके महर्लोकात् परलोके च पठ्यते ।” इति विश्वप्रकाशः। अत एव जनशब्दस्याप्यर्थवत्ता। तृतीयविशेषणेनावताररूप- त्वोक्त्या सौलभ्य व्यज्यते । “यस्यावताररूपाणि" इत्यादिष्ववताराणां सौलभ्यप्रसिद्धेः । चतुर्थविशेषणेन “स्वां मायां वैजयन्ती वनमालाख्या- ना गुणमयी दधाति' इति श्रीभागवतोक्तरीत्या मायारूपाया वैजयन्त्या भूषणतया विशेषणत्वप्रतिपादनेन मायाधिष्ठानजगत्कारणब्रह्मरूपत्वा- भिव्यक्त्या स्वामित्व व्यज्यते। ‘स कारण करणाधिपाधिपः' इति जीवान् प्रति स्वामित्वश्रुतेः । अनेनैव विशेषणेन जगत्कारणब्रह्मरूपत्वस्याक्षिप्त- तया सर्वज्ञत्वसर्वशक्तित्वादयो भगवतः कार्यकरत्वोपयोगिगुणा अप्यनु- संहिताः । प्रबन्धनिर्माणरूपप्रस्तुतकार्यविशेषोपयोगितया धामेति ज्ञान- शक्तिप्राधान्येन भगवाननुसहितः। अपि च एभिरेव विशेषणैरस्य काव्यस्य प्रेक्षावत्प्रवृत्त्युपयोगिविषयप्रयोजनसूचनमपि क्रियते। तथाहि । वृन्दावन- चरमित्यादिना विशेषणत्रयेण भगवतो वृन्दावनसञ्चारादिक चरितमस्य विषय इति सूच्यते । तेनैव तस्य शृङ्गारवीराद्भुतरसभरितत्वविभावनात् तदास्वादः प्रयोजनमिति सूच्यते। जयन्तीसभवमिति भगवदाविर्भावतिथौ जयन्तीपदप्रयोगेण तस्य जयशीलत्वव्यञ्जनेन तच्चरितस्य वीररसमयत्वं विभाव्यते । वल्लवीजनवल्लभमित्यनेन शृङ्गारप्रचुरत्वम् । बृन्दावनचरमित्य- नेन बृन्दावनचरितगोवर्द्धनोद्धरणादिकृताद्भुतरसप्रायत्वमिति । शृङ्गारवीरा- द्भुतमयत्वाद्भगवतः श्रीकृष्णस्य । यद्वक्ष्यति द्वितीयसर्गे देवकीगर्भवर्णने