पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

॥ श्रीः ॥


श्रीमन्निगमान्तमहादशिकविरचितं


॥ यादवाभ्युदयम् ॥


अव्यादापूरयद्वंशमव्याजमधुरस्मितम् ।
गोकुलानुचरं धाम गोपिकानेत्रमोहनम् ॥ १ ॥

वंशे महति सुधांशोः पाण्डुसुतप्रवरचरितपरिपूते ।
आसीदपारमहिमा महीश्वरो रामराज इति ॥ २ ॥

उदपादि तिम्मराजस्ततोऽम्बुधेरिव सुधामयान्मणिराजः।
हृदयङ्गमं मुरारेर्यमलंचक्रे प्रभेव गोपीदेवी ।। ३ ॥

राजर्षिरेष सुचिरं धुरि स्थितस्सत्यसन्धानाम् ।
आराध्य वेङ्कटेश्वरमलभत लोकोत्तरान् पुत्रान् ॥ ४ ॥

तेषु महितेषु जयति त्रिदिवाधीशेषु पद्मबन्धुरिव ।
श्रीचिन्नतिम्मराजः प्रतापनीराजितक्षमावलयः ।। ५ ॥

प्लवमानस्य समुद्रे सेतोश्शैथिल्यशङ्कया निहिताः ।
कीला इव भासन्ते तत्रत्या यस्य पृथुजयस्तम्भाः ॥ ६ ॥