सामग्री पर जाएँ

पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/२११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१५७
चतुर्थः सर्गः।

सहति । सः इत्यं चिन्तां प्राप्य स्थितः। नृशंसचेताः क्रूरान्तःकरणः । नेता प्रभुः कंसः । दुर्दमान् कृच्छ्रदमनान् । 'ईषदुःसुषु कृच्छ्राकृच्छ्रर्थिषु खल्' इति खल्प्रत्ययः। आसुरसत्त्वभेदान् आसुरान्प्राणिविशेषान् । समाहूय । नाथस्य कृष्णस्य विहारेण क्रीडया गुप्तम् । अत एव, परैः अरिभिः अधृष्यम् । नन्दस्यास्पद स्थानं प्रति । प्रस्थापयामास । प्रौढिनि सत्यनाधृष्यो भवेत्कृष्ण , ततः शैशव एवात्र काश्चिदुपायः प्रयोजनीय इत्यभिप्रायेणेति भावः। आसुरशब्दस्य प्रज्ञादिपाठात्स्वार्थिकेऽणि आदिवृद्धिः ॥ २ ॥ कदाचिदन्तर्हितपूतनात्मा कंसपयुक्ता किल कापि माया। निद्रापराधीनजने निशीथे वजं यशोदाकृतिराविवेश ॥ ३ ॥ कंदाचिदिति । कदाचित् एकदा । कसप्रयुक्ता कापि माया, कसप्रयुक्तानामसुरभेदानां मध्ये काचित्पूतनाख्या माया शाम्बरी। अन्तहितपूतनात्मा तिरोहितपूतनाख्यनिजखरूपा । यशोदाया आकृतिरिव आकृतिर्यस्याः सा तथाभूता सती। निद्रापराधीनजने निद्रापरतन्त्रो जनो यस्मिस्तस्मिन् । निशीथे अर्धरात्रे । व्रज नन्दस्य गोकुलम् । आविवेश प्रविवेशेत्यर्थः ॥ ३ ॥ स्तन्येन कृष्णः सह पूतनायाः प्रणान्पपौ लुप्तपुनर्भवायाः। यदद्भुतं भावयतां जनानां स्तनंधयत्वं न पुनर्वभूव ॥ ४॥