विश्वाभिनन्द्या वृधे तदानीं वैहायसी कापि वसन्तवन्या ॥४५॥ सतारेति । ताराणि नक्षत्राण्येव पुष्पाणि तैस्सह वर्तत इति सतारपुष्पा । धृतपल्लवधीः सन्ध्याभ्रतेजसा धृतप्रवाळशोभा । छायानां समृद्धिः प्रच्छायम् । सममितिवत् समृद्ध्यर्थेऽव्ययीभावः । तदेव नीरन्ध्रतम - प्रतान ध्वान्तप्रचयो यस्यां सा तथोक्ता । विश्वाभिनन्द्या जगदभिनन्दनीया। वैहायसी विहायस्याकाशे भवा । कापि आश्चर्यभूता। वसन्तवन्या वसन्तकालवनराजि. । ववृधे वृद्धिसपना । वसन्तवन्यति गायैवाध्यवसीयते । वनशब्दख पाशादिपाठात् समूहार्थे यप्रत्ययः । अत्र सतारपुष्पेति रूपकम् । धृतपल्लवीरित्यत्र अन्यस्य श्रीरन्यत्र न सभवतीति असभवद्वस्तुसबन्धन पल्लवश्रीसश्रियोऽवगमनात् निदर्शना । प्रच्छायेयादावुपमा। एतैरुत्थापिता च सभ्याया वसन्त नपडत्यभेदाध्यव मायरूपातिशयोक्तिरिति संकरः ॥ ४५ ॥ अलक्ष्यत श्यामलमन्तरिक्षं ताराभिरादर्शितमौक्तिकौघम् । निवत्स्यतो विश्वपतेरवन्यां कालेन भृत्येन कृतं वितानम् ॥ ४६॥ अलक्ष्यतेति । श्यामलम् । ताराभि. नक्षत्रै ।आदर्शितमौक्तिकोघ प्र दर्शितमुक्ताफलनिकरम् । अन्तरिक्षम् । अवन्या भूमौ । निवत्स्यतः निवास करिष्यतः । विश्वपतेः कृष्णस्य । भृत्येन । कालेन । कृतम् । वितानमिव अलक्ष्यत दृष्ट । अत्र ताराणां मौक्तिकत्वरूपणेन रूपकसकीर्ण उत्प्रेक्ष
पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/१३०
दिखावट