पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/१०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

________________

द्वितीयः सर्गः। अथागमानामनघेन भून्ना धर्मस्य पूर्णेन धनागमेन । दिवौकसां दर्शयता विभूति देवी बभौ दौहृदलक्षणेन ॥ १ ॥ अथेति । अथ भगवतो गर्भप्रवेशानन्तरम् । देवी राज्ञी । आगमानां वेदानाम् । अनघेन रम्येण। 'अनघो निर्मलापापरम्येषु च निरामये।' इति रत्नमाला' भूम्ना बहुत्वेन, प्रचयेन वेदप्रचारविरोधिदैत्यादिसहरणार्थभगवदाविर्भावनिदानतया प्रचयहेतुत्वात् । बहुशब्दादिमनिचि ‘बहोर्लोपो भू च बहोः' इति तदादेोपे बहुशब्दस्य भ्वादेशे च सति भूमेति रूपम् । धर्मस्य । पूर्णेन । धनागमेन धनलाभेन । धर्मस्य समृद्धिहेतुतया परिपूर्णधनलाभसादृश्यात् । दिवौकसां देवानाम् । विभूतिं ऐश्वर्यम् । दर्शयता । तेषामैश्वर्यप्राप्ती हेतुतया तत्प्रदर्शयितृसादृश्यात् । दौहृदलक्षणेन गर्भचिहेन । बभौ प्रचकाशे । अत्रैकस्यैव दौहृदलक्षणस्य भूमादिरूपेण रूपणान्मालारूपकालङ्कारः ॥ १॥ शृङ्गारवीराद्भुतचित्ररूपं गर्भे त्रिलोकैकनिधि वहन्त्याः।। परावरक्रीडितकय्राणि द्वेषाभवन् दोहदलक्षणानि ॥२॥ शारेति । शृङ्गारवीराद्धतैः रसविशेषैः चित्रं नानारूपम् । त्रिलोकै