पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
स्नातकधर्मप्रकरणम् ६ ]
५१
मिताक्षरासहिता ।

पर्युषितस्य प्रतिप्रसवमाह-

अन्नं पर्युषितं भोज्यं खेहातं चिरसंस्थितम् ।
अखेहा अपि गोधूमयवगोरसविक्रियाः ।। १६९ ।।

अन्नमदनीयं पर्युषितं घृतादिखेहसंयुक्तं चिरकालसंस्थितमपि भोज्यम् । गोधूमयवगोरसविक्रियाः मण्डकसत्कुकिलाटकूर्चिकाद्या अखेहा अपि चिरकाल संस्थिता भोज्याः, यदि विकारान्तरमनापन्ना ।–‘अपूपधानाकरम्भसत्कुर्यावक तैलपायसशाकानि शुक्तानि वर्जयेत्’ इति वसिष्ठस्मरणात् ॥ १६९ ॥

संधिन्यनिर्दशावत्सागोपयः परिवर्जयेत् ।
औष्ट्रमैकशफं खैणमारण्यकमथाविकम् ।। १७० ।।

गौः या वृषेण संघीयते सा संधिनी । ‘वशां वन्ध्यां विजानीयादृषाक्रान्तां च संधिनीम्’ इति त्रिकाण्डीस्मरणात् । या चैकां वेलामतिक्रम्य दुह्यते, या च वत्सान्तरेण संधीयते सापि संधिनी । प्रसूता सत्यनतिक्रान्तदशाहा अनिर्दशा । मृतवत्सा अवत्सा । संधिनी च अनिर्दशा च अवत्सा च संधिन्यनिर्दशावत्सा स्ताश्च गावश्च तासां पयः क्षीरं परिवर्जयेत् । संधिनीग्रहणं संधिनीयमलसुवोरु पलक्षणार्थम् । यथाह गौतमः–‘स्यन्दिनीयमलसूसंधिीनां च' इति । स्रव त्पयःस्तनी स्यन्दिनी । यमलसूर्यमलप्रसविनी । एवमजामहिष्योश्चानिर्दशयो पयो वर्जयेत् ।–‘गोमहिष्यजानामनिर्दशानाम्’ इति वसिष्ठस्मरणात् । पयोग्र हणात्तद्विकाराणामपि दध्यादीनां निषेधः । नहि मांसनिषेधे तद्विकाराणामनि षेधो युक्तः । विकारनिषेधे तु प्रकृतेरनिषेधः । पयोनिषेधाच्छकृन्मूत्रादेरनिषेधः । उष्ट्राज्जातमौष्ट्र पयोमूत्रादि । एकशफा वडवादयः तत्प्रभवमेकशफम् । स्त्रीभवं खैणम् । स्त्रीग्रहणमजाव्यतिरिक्तसकलद्विस्तनीनामुपलक्षणार्थम् ।–‘सर्वासां द्विस्तनीनां क्षीरमभोज्यमजावर्जम्’ इति शङ्कस्मरणात् । अरण्ये भवा आरण्यका स्तदीयमारण्यकं क्षीरं माहिषव्यैतिरेकेण। ‘आरण्यानां च सर्वेषां मृगाणां माहिषं वेिना’ इति वचनात् । अवेजतमाविकम् । वर्जयेदिति प्रत्येकमभिसंबध्यते । औष्ट्रमित्यादिविकारप्रत्ययनिर्देशाद्विकारमात्रस्य पयोमूत्रादेः सर्वदा निषेधः । नित्यमाविकमपेयमैौष्ट्रमैकशर्फ च' इति गौतमस्मरणात् ॥ १७० ॥

देवतार्थं हविः शियु लोहेितान्त्रश्चनांस्तथा ।
अनुपाकृतमांसानि वेिङ्कजानि कवकानि च ।। १७१ ।।

देवतार्थ बल्युपहारनिमित्तं साधितम् । हविः हवनार्थ सिद्धं प्राकू होमात् । शिशुः सोभाञ्जनः लोहितान् वृक्षनिर्यासान् । त्रश्चनप्रभवान् वृक्षच्छेदनजाता नलोहितानपि । यथाह मनु –“लोहितान्वृक्षनिर्यासान्त्रश्चनप्रभवांस्तथा' इति । लोहितग्रहणात् हिङ्गुकरादीनामनिषेधः । अनुपाकृतमांसानि यज्ञेऽहुतस्य पशो-


१ सतुपाचकतैल. ख. २ रनिषेधेो युक्तः ख. ३ व्यतिरिक्तम् क. ४ शोभाञ्जनः क