सामग्री पर जाएँ

पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
विवाहप्रकरणम् ३]
२३
मिताक्षरासहिता ।

इमामगृभ्णन्नशनामृतस्येत्यश्वाभिधानीमादत्त' इत्ययं मन्त्रः स्वसामथ्यदश्चाभि धान्याः गर्दभाभिधान्याश्च रशनाया ग्रहणे विनियुक्तः पुनरश्वाभिधानीमादत्त इत्यनेनाश्वाभिधान्याँ विनियुज्यमानो गर्दभाभिधान्याः निवर्तते । यथा “पञ्च पञ्च नखा भक्ष्याः' इत्यत्र हेि यदृच्छया शशादिषु श्वादिपु च भक्षणं प्रासं पुनः शशा दिषु श्रूयमाणं श्वादिभ्यो निवर्तत इति । किं पुनरत्र युक्तम् । परिसंख्येत्याह । तथाहि जुकृतदारसंग्रहस्य स्वेच्छयैवतै गमनं प्राप्तमिति न विधेरयं विषय नापि निय मस्य । गृह्यस्मृतिविरोधात् । एवंहेि स्मरन्ति गृह्यकारा –‘दारसंग्रहानन्तरं त्रिरात्रं द्वादशरात्रं संवत्सरं वा ब्रह्मचारी स्यात्' इति । तत्र द्वादशरात्रात्संवत्स राद्वा पूर्वमेवर्तुसंभवे ऋतौ गच्छेदेवेति नियमाब्रह्मचर्यस्मरणं बाध्येत । अपिच प्राप्त भावार्थे वचनं विशेषणपरं युक्त, प्रासं चतै भार्यागमनैमिच्छयैव, अतो यदि बाच्छेदृतावेवेति वचनव्यक्तिर्युक्ता । किंच नैयमिकात्पुत्रोत्पतिविधेरेव ऋत्तैौ गमनं नित्यप्राप्तमेवेति ऋतौ गच्छेदेवेति नियमोऽनर्थकः स्यात् । नियमे चादृष्टं कल्प ीयम् । किंच ऋतौ गन्तव्यमेवेति नियमे असन्निहितस्य व्याध्यादिना असमर्थ स्यानिच्छोश्चाशक्योऽर्थ उपदिष्टः स्यात् । विध्यनुवादविरोधश्च नियमे । तथाहि एकः शब्दः सकृदुचरितम्तमेवार्थ पक्षेऽनुवदति पक्षेऽनुविधत्ते चेति । तस्माट्ट तावेव गच्छेन्नान्यत्रेति परिसंख्येव युक्ता । तदिदं भारुचिविश्वरूपादयो नानु मन्यन्ते । अतो नियम एव युक्तः । पक्षे स्वार्थविधिसंभवात् अगमने दोषश्रव णाञ्च । (यमः) *ऋतुस्रातां तु यो भार्या सन्निधौ नोपगच्छति । घोरायां श्रूणह त्यायां युज्यते नात्र संशय ॥' इति । नच विध्यनुवादविरोधः, अनुवादाभावाद्वि व्यर्थत्वाच्च वचनस्य । तत्रहेि विध्यनुवादविरोधो यत्र विधेयावधितया तदेवानुव दितव्यं, अप्राप्ततयान्योद्देशेन विधातव्यं च । यथा वाजपेयाधिकरणपूर्वपक्षे ‘वाज पेयेन स्वाराज्यकामो यजेते'ति वाजपेयलक्षणगुणविधानावधित्वेन यागोऽनुवद्-ि तव्यः, सएव स्वाराज्यलक्षणपफलोद्देशेन विधातव्यश्चेति । नचानुवादेनेह कृत्य मस्ति । यत्तु नियमेऽदृष्टं कल्प्यमित्युक्तं तत्परिसंख्यायामपि समानम् । अनृती गच्छतो दोषकल्पनात.। यत्तु नैयमिकपुत्रोत्पादनविध्याक्षेपेणैव ऋतौ नित्यगमनप्राप्त न नियम इति । तँदसत् । स एवायं नैयमिकपुत्रोत्पादनविधिः । स्यान्मतम् एवं गच्छन् खियं क्षामां लक्षण्यं पुत्रं जनयेत्’ इति ख्यभिगमनातिरिक्त पुत्रोत्पादनविधिरिति । तन्न । र्गमनकरणिकाया भावनाया एव पुत्रोत्पत्तिकर्मता प्रदृश्यते । एवं गच्छन् लक्षण्यं पुत्रं जनयेदित्यनेन यथाग्निहोत्रं जुह्वन् स्वर्ग भावये दिति । नचासंनिहितादेरशक्यार्थविधिप्रसङ्गः । सन्निहितशक्तयोरेवोपदेशात् ‘ऋतु स्नातां तु यो भाय सन्निधौ नोपगच्छति '। (देवलः) *यः स्वदारानृतुस्रातान्स्वस्थ सन्नोपगच्छति’ इति विशेषोपादानात् । अनिच्छनिवृत्तिस्तु नियमविधानादेव । नच विशेषणपरतापि । पक्षे भावार्थविधिसंभवात् । नापि गृह्यस्मृतिविरोधः । संव-


१ निवर्तयति ख. २ भार्येच्छयैव क.३ भागुरि क. ४ तया फलोद्देशेन क. ५ तदसदिति क. नास्ति. ६ यतस्तच्च गमन. क