पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/५१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

याज्ञवल्क्यस्मृतिः । [ प्रायश्चित्ताध्यायः पादादिकृस्या योजनीयम् । आवृत्तौ पुनश्चान्द्रायणादिकमिति एतद्दिगवलम्बनेना न्यत्रापि कल्पना कार्या । यत्पुनहस्पतेिनोक्तम्—‘जन्मप्रभृति यत्किंचित्पा तकं चोपपातकम् । तावदावर्तयेत्कृच्छू यावत्षष्टिगुणं भवेत् ॥’ इति । तत् द्वे परदारे इति गौतमोक्तद्विवार्षिकसमानविषयम् । तथा त्रैमासिकादिविषय भूतोपपातकावृत्तिविषयं वा । पातकपदाभिधेयचाण्डालादिस्रीगमने द्विरभ्यास विषयं वा । तत्र ‘ज्ञानात्कृच्छ्ाब्दमुद्दिष्टमज्ञानादैन्दवद्वयम्’ इति सकृडुद्धिपूर्व गमने कृच्छ्शब्दविधानात्तद्भ्यासे द्विवर्षतुल्यपष्टिकृच्छूविधानं युक्तमेव । यत्तु सुमन्तुनोक्तम्--'यदप्यसकृद्भ्यस्तं बुद्धिपूर्वमघं महत् । तच्छुद्धयत्यब्दकृच्छेण महतः पातकादृते ॥’ इति तदप्युपपातकाद्यावृत्तिविपर्य । तथा ‘अज्ञानादैन्दवद्व यमिति यमोत्तैन्दवद्वयविषयभूतपातकावृत्तिविषयं वा । यस्तु तपस्यसमर्थो धान्यसमृद्धश्च स कृच्छूादिन्नतानि द्विजायभोजनदानेन संपादयेत् । तथाहेि स्मृत्यन्तरम्-*कृच्छे पञ्चातिकृच्छे त्रिगुणमहरहत्रिंशदेवं तृतीये चत्वारिंशच्च तसे त्रिगुणितगुणिता विंशतिः स्यात्पराके । कृच्छे सान्तापनाख्ये भवति षडधिका विंशतिः सैव हीना द्वाभ्यां चान्द्रायणे स्यात्तपसि कृशबलो भोजयेद्विप्रमुख्यान् ॥ इति । अहरहरिति सर्वत्र संबन्धनीयम् । तृतीयः कृच्छूशतिकृच्छूः । अत्र प्राजा पत्यदिवसकल्पनया विद्वद्विप्राणां पष्टिभोजनं भवति । यत् चतर्विशतिमतेऽ भिहितम्--'विप्रः छात्श"वा"भोज्याः” पावकंष्टिस्तथैव च । अन्या वा पावनी काचित्समान्याहुर्मनीषिणः ।।' इति प्राजापत्यस्थाने द्वादशानां विप्राणां भोजन मुक्तं तन्निर्धनविषयम् । यच्चान्द्रायणस्यापि तत्रैव प्रत्यान्नायाद्युक्तम्-“चान्द्रायणं मृगारेष्टिः पवित्रेष्टिस्तथैव च । मित्रविन्दापशुचैव कृच्छ मासत्रयं तथा ॥ नित्य नैमित्तिकानां च काम्यानां चैव कर्मणाम् । इष्टीनाँ पशुबन्धानामभावे चरव स्मृताः ॥' इति तदपि चान्द्रायणाशक्तस्य । यतु कृच्छ् मासत्रय तथात कृच्छ् ष्टकं प्रत्यान्नातं तदपि जरठमूर्खविषयम् । चान्द्रायणं त्रिभिः कृच्छेरिति दर्शित त्वादित्यलं प्रपञ्चेन । प्रकृतमनुसरामः--यस्त्वभ्युदयकामो धर्मार्थ काम्यनि योगनिष्पत्यर्थमेतच्चान्द्रायणमनुतिष्टति न पुनः प्रायश्चित्तार्थमसौ चन्द्रसालोक्यं स्वर्गविशेषं प्रामोति । एतच्च संवत्सरावृत्यभिप्रायेण । ‘एकमाप्वा विपापो विपाप्मा सर्वमेनो हन्ति, द्वितीयमास्वा दृशपूर्वान्दशापरानात्मानं चैकविंशं पि च पुनाति, संवत्सरं चास्वा चन्द्रमसः सलोकतामामोती'ति गौतमस्मरणात् । कृच्छ्कृद्धर्मकामस्तु महतीं श्रियमापुयात् । यथा गुरुक्रतुफलं प्रामोति सुसमाहितः ।। ३७ ।। किंच । यस्त्वभ्युदयकामः प्राजापत्यादिकृच्छाननुतिष्ठति स महतीं राज्यादिः लक्षणां श्रियं विभूतिमनुभवति । यथा गुरुक्रतूनां राजसूयादीनां कर्ता तत्फलं स्वाराज्यादिलक्षणं महत्फलं लभते तथायथमपेि सुसमाहितः सकलाङ्गकलापम विकलमनुतिष्ठन्निति फलमहिमप्रकाशनाथै क्रतुदृष्टान्तकीर्तनम् । सुसमाहित इत्यनेनाविकलशास्त्रानुष्ठानं वदन्काम्यकर्मतयाङ्गवैकल्ये फलासिद्धिं द्योतयति । १ अन्यद्वा पावनं किंचित्सममाहुर्मनीषिण इत्यपि पाठः