पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
विवाहप्रकरणम् ३]
२१
मिताक्षरासहिता ।

स्त्रीभिर्भर्तृवचः कार्यमेष धर्मः परः स्त्रियाः ।
आशुद्धेः संप्रदीक्ष्यो हि महापातकदूषितः ।। ७७ ।।

स्त्रीभिः संदा भर्तृवचनं कार्यम् । यस्माद्यमेव पर उत्कृष्टो धर्मः स्त्रीणां स्वर्गहेतुत्वात् । यदा तु महापातकदूषितस्तदा आशुद्धेः संप्रतीक्ष्यः । न तत्पार तच्यम् । उत्तरकालं तु पूर्ववदेव तत्पारतन्नयम् ॥ ७७ ॥ शास्रीयदारसंग्रहस्य फलमाह-

लोकानन्त्यं दिवः प्राप्तिः पुत्रपौत्रप्रपौत्रकैः ।
यस्मात्तस्मात्स्त्रियः सेव्याः कर्तव्याश्च सुरक्षिताः ।। ७८ ।।

लोके आनन्त्यं वंशस्याविच्छेदः दिवः प्राप्तिश्च दारसंग्रहस्य प्रयोजनम् । कथ मित्याह-पुत्रपौत्रप्रपौत्रकैलोकानन्यम्, अग्निहोत्रादिभिश्च स्वर्गप्राप्तिरित्यन्वयः । यस्मात्स्त्रीभ्य एतद्भयं भवति तस्मात् स्त्रियः सेव्या उपभोग्याः प्रजार्थम् । रक्षि तव्याश्च धर्मार्थम् । तथाचापस्तम्बेन धर्मप्रजासंपत्तिः प्रयोजनं दारसंग्रहस्योत्तं धर्मप्रजासंपन्नेपु दारेपु नान्यां कुर्वीत’ इति वदता। रतिफलं तु लैौकिकमेव ॥७८॥ पुन्नेोत्पत्यर्थ स्त्रियः सेव्या इत्युक्तं तत्र विशेषणमाह-

षोडशर्तुनिशाः स्त्रीणां तस्मिन्युग्मासु संविशेत् ।
ब्रह्मचायंव पवाण्याद्याश्वतस्त्रस्तु वजयत् ।। ७९ ।।

स्त्रीणां गर्भधारणयोग्यावस्थोपलक्षितः काल ऋतुः । सच रजोदर्शनदिवसादा रभ्य षोडशाहोरात्रस्तस्मिन् ऋत्तौ युग्मासु समासु रात्रिषु । रात्रिग्रहणाद्दिवसप्रति षेधः । संविशेत् गच्छेत्पुत्रार्थम् । युग्मास्विति बहुवचनं समुच्चयार्थम् । अतचैक स्मिन्नपि ऋतैौ अप्रतिषिद्धासु युग्मासु सर्वासु रात्रिषु गच्छेत् । एवं गच्छन्ब्रह्म चार्येव भवति । अतो यत्र ब्रह्मचर्य श्रद्धादौ चोदितं तत्र गच्छतोऽपि न ब्रह्मच र्यस्खलनदोषोऽस्ति । किंच पर्वाण्याद्याश्चतस्रस्तु वर्जयेत् । पर्वाणीति बहुवचना दाद्यार्थावगमादष्टमीचतुर्दश्योहणम् । यथाह मनुः (४॥१५५)–“अमावास्या मष्टमीं च पैौर्णमासीं चतुर्दशीम् । ब्रह्मचारी भवेन्नित्यमप्यूतैौ स्रातको द्विजः ॥’ इति । अतोऽमावास्यादीनि रजोदर्शनादारभ्य चतस्रो रात्रीश्च वर्जयेत् ॥ ७९ ॥

एवं गच्छन् त्रियं क्षामां मघां मूलं च वर्जयेत् ।
सुस्थ इन्दौ सकृत्पुत्रं लक्षण्यं जनयेत्पुमान् ॥ ८० ।।

एवमुक्तन प्रकारेण स्त्रियं गच्छन् क्षामां गच्छेत् । क्षामता च तस्मिन्काले रजस्वलात्रतेनैव भवति । अथ चेन्न भवति तदा कर्तव्या क्षामता पुत्रोत्पत्त्यर्थ मल्पाऽस्निग्धभोजनादिना । ‘पुमान्पुंसोऽधिके शुक्रे स्री भवत्यधिके स्त्रियः’ इति


१ सर्वथा का . २ चतस्रश्च ख. ३ श्राद्धादिपु क. ४ पौष्णं च क.