पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४६८ याज्ञवल्क्यस्मृतिः । शान्युदकं सर्वेयूपपातकेपु' इति । तत एनं कृतप्रायश्चित्तं ते नैव कुत्सयेयुः । तथा सर्वकार्येपु क्रयविक्रयादिषु तेन सह संव्यवहरेयुः ॥ २९५ ॥ पूर्वोक्तस्य पतितपरित्यागादिविधेरतिदेशमाह पतितानामेष एव विधिः स्त्रीणां प्रकीर्तितः । वासो गृहान्तिके देयमन्त्रं वासः सरक्षणम् ।। २९६ ।। य एव पुरुषाणां परित्यागे पिण्डोदकदानविधिः कृतप्रायश्चित्तानां परिग्रहविः धिश्च स एव स्त्रीणामपेि पतितानां वेदितव्यः । इयांस्तु विशेषः । पतिताभ्योऽपि ताभ्यः खीभ्यः कृतोदकादिकर्मभ्यो वासस्तृणपर्णमयं कुटीगृहकं प्रधानगृहसमीपे तथा प्राणधारणमात्रम मलिनं च वस्त्रं पुनः पुरुषान्तरोपभो नेिवारणसहितं देयम् ॥ २९६ ॥ ननु काः पतितास्ता यासामयं परित्यागविधिरित्यत आह नीचाभिगमनं गर्भपातनं भर्तृहिंसनम् । विशेषपतनीयानि स्त्रीणामेतान्यपि धुवम् ।। २९७ ।। हीनवर्णगमनं गर्भपातनमब्राह्मण्या अपि भर्तुः अब्राह्मणस्यापि हिंसनमेित्ये तानि वीणामसाधारणानि पतननिमित्तानि । अपिशब्दात्पुरुषस्य यानि पतन निमित्तानि महापातकातिपातकानुपपातकान्यभ्यस्तानि चोपपातकादीनि तान्यपि स्रीणां ध्रुवं निश्चितं पतनकारणानि भवन्ति । अतएव शौनकः–‘पुरुषस्य यानि पतननिमित्तानेि स्त्रीणामपि तान्येव ब्राह्मणी हीनवर्णसेवायामधिकं पतति इति । यत्तु वसिष्ठनोक्तम्—‘त्रीणि स्त्रियाः पातकानि लोके धर्मविदो विदुः । भर्तुर्वधो श्धूणहत्या स्वस्य गर्भस्य पातनम् ।।' इति श्रूणहत्याग्रहणं कृतं तत् दृष्टा न्तार्थे न पुनरितरेषाँ महापातकादीनां पतनहेतुत्वनिरासार्थम् । यदपि तेनैव चतस्रस्तु परित्याज्याः शिप्यगा गुरुगा च या । पतिङ्गी च विशेषेण जुङ्गितोपगता च या ।।' इति । चतसृणामेव परित्याग इत्युक्तं तस्यापि तासां प्रायश्चित्तमविकी र्षन्तीनां मध्ये चतसृणामेव शिष्यगादीनां चैलान्नगृहवासादिजीवनहेतुत्वाद्युच्छे देन त्यागं कुर्यान्नान्यासामित्यभिप्रायः । अतश्चान्यासां पतितानां प्रायश्चित्तम कुर्वतीनामपि ‘वासो गृहान्तिके देय'मेित्यादिकं कर्तव्यमित्यवगम्यते ॥ २९७ ॥ ‘जुगुप्सेरन्न चाप्येनं संवेिशेयुश्च सर्वश' इत्यस्यापवादमाह शरणाग चीर्णव्रतानपि सतः कृतन्नसहितानिमान् ।। २९८ ।। शरणागतादिव्यापादनकारिणः कृतन्नसहितान्प्रायश्चित्तेन क्षीणदोषानपि न संव्यवहरेदिति वाचनिकोऽयं प्रतिषेधः, किमिति वचनं न कुर्यात्, नहि वचनस्या तिभारोऽस्ति, अतश्च यद्यपि व्यभिचारिणीनां वधेऽल्पीय एव प्रायश्चित्तं तथापि वाच्वनिकोऽयं संव्यवहारप्रतिषेधः ॥ २९८ ॥ [ प्रायश्चित्ताध्यायः तु ।