सामग्री पर जाएँ

पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रायश्चित्तप्रकरणम् ५] मिताक्षरासहिता । ४६५.

  • अध्यस्य शयनं यानमासनं पाद्के तथा । द्विजः पलाशवृक्षस्य त्रिरात्रं तु ब्रती

भवेत् ॥ क्षत्रियस्तु रणे पृष्ठं दत्त्वा प्राणपरायण । संवत्सरै व्रतं कुर्याच्छित्त्वा वृक्षं फलप्रदम् ॥ द्वौ वेिौ ब्राह्मणाझी वा दम्पती गोद्विजोत्तमौ । अन्तरेण यदा गच्छेत्कृच्छू सान्तपनं चरेत् ॥ होमकाले तथा दोहे स्वाध्याये दारसंग्रहे । अन्तरेण यदा गच्छेद्विजश्चान्द्रायणं चरेत् ॥’ इति । दोहे सान्नाय्याद्यङ्गभूते । एतच्चाभ्यासविषयम् । सच्छिद्रादित्याद्यरिष्टदर्शनादौ शङ्ख आह

  • दुःस्वमारिष्टदर्शनादौ घृतं सुवर्ण च दद्यात्' ॥

कचिद्देशविशेषगमनेऽपि देवल आह-‘सिन्धुसैौवीरसौराष्ट्रांस्तथा प्रत्यन्तवासिन । अङ्गवङ्गकलिङ्गान्भ्रान् गत्वा संस्कारमर्हति ॥' एतच तीर्थयात्रा व्यतिरेकेण द्रष्टव्यम् ॥ स्वपुरीषदर्शनादौ यम आह-‘प्रत्यादित्यं न मेहेत न पश्येदात्मनः शकृत् । दृष्टा सूर्य निरीक्षेत गाम िब्राह्मणं तथा ॥' इति । शङ्गोऽप्याह-“पादप्रतपनं कृत्वा कृत्वा वह्निमधस्तथा । कुशैः प्रमृज्य पादौ तु दिनमेकं व्रती भवेत् ॥” इति ॥ क्षत्रियाद्युपसंग्रहणे हारीत आह 'क्षत्रियाभिवादनेऽहोरात्रमुपवसेत्, वैश्याभिवादने द्विरात्रम्, शूद्रस्याभिवादने त्रिरात्रमुपवासः' इति ॥ तथा ‘शय्यारूढे पादुकोपानहारोपितपादोच्छिष्टान्ध कारस्थश्राद्धकृज्जपदेवपूजानिरताभिवादने त्रिरात्रमुपवासः स्यादन्यत्र निमन्त्रि तेनान्यत्र भोजनेऽपि त्रिरात्रम्’ इति ॥ समित्पुष्पादिहस्तस्याभिवादनेऽप्येतदेव-‘समित्पुष्पकुशाज्याम्बुमृदन्ना क्षतपाणिकम् । जपं होमं च कुवाणं नाभिवादेत वै द्विजम् ॥' इत्यापस्तम्बीये जपादिभिः समभिव्याहारात् । अभिवादकस्यापीदमेव प्रायश्चित्तम्—‘नोदकुम्भ हस्तोऽभिवादयेत् न भैक्ष चरन्न पुष्पाज्यादिहस्तो नाशुचिर्न जपन्न देवपितृकार्य कुर्वन्न शयानः' इति तस्यापि शङ्गेन प्रतिषेधात् । एवमन्यान्यपि वचांसेि स्मृत्य न्तरतोऽन्वेष्याणि ग्रन्थगौरवभयादत्र न लिख्यन्ते ॥ २९२ ॥ इति प्रकीर्णकप्रायश्चित्तप्रकरणम् । निमित्तानामानन्त्यात्प्रतिव्यक्तिप्रायश्चित्तैस्य वक्तुमशक्यत्वात्सामान्येनोपदिष्टानु पदिष्टविषये प्रायश्चित्तविशेषज्ञानार्थमिदमाह देशं कालं वयः शतिं पापं चावेक्ष्य यत्नतः । प्रायश्चित्तं प्रकल्प्यं स्याद्यत्र चोक्ता न निष्कृतिः ।। २९३ ।। यदुक्तं प्रायश्चित्तजातं वक्ष्यमाणं वा तद्देशादिकमवेक्ष्य यथा कर्तुः प्राणविप त्तिर्न भवति तथा विषयविशेषे कल्पनीयम् । इतरथा प्रधाननिवृत्तिप्रसङ्गात् । तथाच वक्ष्यति–‘वायुभक्षो दिवा तिष्ठत्रात्रिं नीत्वाप्सु सूर्यदृकू’ इति, तत्र यदि हिमवद्भिरिनिकटवर्तिनामुदैकवास उपदिश्यते अतिशीताकुलिते वा शिशेिरा दिकाले तदा प्राणवियोगो भवेदिति तद्देशकालपरिहारेणोर्दकवासः कल्पनीयः । तथा वयोविशेषादपि यदि नवतिवार्षिकादेरपूर्णद्वादशवार्षिकस्य वा द्वेदशा १ अङ्गवङ्गकलिङ्गांश्च. २ प्रायश्चित्तनिमित्तस्य ख. ३ उदवास ड. ४ द्वादशवार्षिकादिकं ड: