पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१८
[ आचाराध्यायः
याज्ञवल्क्यस्मृतिः ।

सवर्णासु विवाहे स्वगृह्योक्तविधिना पाणिरेव ग्राह्यः । क्षत्रियकन्या तु शरै गृह्णीयात् । वैश्या प्रतोदमादद्यात् । उत्कृष्टवेदने शूद्रा पुनर्वसनस्य दशाम् । यथाह मनुः (३|४४)-‘वसनस्य दशा ग्राह्या शूद्योत्कृष्टवेदने' इति ॥ ६२ ॥ कन्यादातृक्रममाह-

पिता पितामहो भ्राता सकुल्यो जननी तथा ।
कन्याप्रदः पूर्वनाशे प्रकृतिस्थः परः परः ।। ६३ ।।
अप्रयच्छन्समाशोति भ्रूणहत्यामृतावृतौ ।
गम्यं त्वभावे दातृणां कन्या कुर्यात्स्वयंवरम् ।। ६४ ।।

एतेषां पित्रादीनां पूर्वस्य पूर्वस्याभावे परः परः कन्याप्रदः प्रकृतिस्थश्चत् यद्यु न्मादादिदोषवान्न भवति । अतो यस्याधिकारः सोऽप्रयच्छन् भ्रूणहत्यामृतावृता वाऽोति । एतचोक्तलक्षणवरसंभवे वेदितव्यम् । यदा पुनर्दातृणामभावस्तदा कन्यैव गम्यं गमनार्हमुक्तलक्षणं वरं स्वयमेव वरयेत् ॥ ६३ ॥ ६४ ॥ कन्याहरण दण्डः:-

सकृत्प्रदीयते कन्या हरंस्तां चैौरदण्डभाक् ।

सकृदेव कन्या प्रदीयत इति शास्त्रनियमः । अतस्तां दत्वा अपहरन् कन्यां एवं सर्वत्र प्रतिषेधे प्रासेऽपवादमाह-

दत्तामपि हरेत्पूर्वाच्छेयांश्चेद्वर आत्रजेत् ।। ६५ ।।

यदि पूर्वस्माद्वराच्छेयान्विद्याभिजनाद्यतिशययुक्तो वर आगच्छति पूर्वस्य च पातकयोगो दुर्वेत्तत्वं वा तदा दत्तामपि हरेत् । एतश्च सप्तमपदात्प्रा द्रष्टव्यम् ॥ ६५ ॥

अनाख्याय ददद्दोषं दण्ड्य उत्तमसाहसम् ।
अदुष्टां तुं त्यजन्दण्ड्यो दूपर्यस्तु मृपा शतम् ।। ६६ ।।

यः पुनश्चक्षुग्रह्य दोषमनाख्याय कन्यां प्रयच्छति असावुत्तमसाहसं दण्ड्यः । उत्तमसाहसं च वैक्ष्यते । अदुष्टां तु प्रतिगृह्य त्यजनुत्तमसाहसमेव दण्ड्यः । यः पुनर्विवाहात्प्रागेव द्वेषादिना असद्विदोषेदर्धरोगादिभिः कन्यां दूषयति स पणानां वक्ष्यमाणलक्षणानां शतं दण्ड्यः ॥ ६६ ॥ अनन्यपूर्विकामेित्यत्रानन्यपूर्वा परिणेयोक्ता तत्रान्यपूर्वा कीदृशीत्याह-

अक्षता च क्षता चैव पुनर्भूः संस्कृता पुनः ।
खैरिणी या पतिं हित्वा सवर्ण कामतः श्रयेत् ॥ ६७ ॥

अन्यपूर्वा द्विविधा पुनर्भूः खैरिणी चेति । पुनभूरपि द्विविधा क्षता चाक्षता


१ च त्यजन् क . २ अग्रे व्यवहाराध्याये