पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४३० याज्ञवल्क्यस्मृतिः। [ प्रायिश्चत्ताध्यायः भवतीति विज्ञायत’ इति । एवं वैश्यो राजन्यां शूदश्च राजन्यावैश्ययोरिति । पूता भवतीति वचनाद्राजवीथिपरिबाजनमेव दण्डरूपं प्रायश्चित्तान्तरनिरपेक्ष शुद्धिसाधनमेिति दर्शयति ॥ ब्राह्मण्याः प्रातिलोम्येन द्विजातिव्यवाये प्रायश्चित्तान्तरमप्युक्तं संवर्तन ब्राह्मण्यकामा गच्छेचेत्क्षत्रियं वैश्यमेव वा । गोमूत्रयावकैर्मासात्तदर्धाच विशु द्धयति ॥’ इति । कामतस्तु तद्विगुणं कर्तव्यम् । ‘कामात्तद्विगुणं भवेत्’ इति वचनात् । षटूत्रिंशान्मतेऽपि ‘ब्राह्मणी क्षत्रियवैश्यसेवायामतिकृच्छू कृच्छाति कृच्छूो चरेत् । क्षत्रियोषित ब्राह्मणराजन्यवैश्यसेवायां कृच्छ्ार्ध प्राजापत्यमति कृच्छूम् । वैश्ययोषिद्भाह्मणराजन्यवैश्यसेवायां कृच्छूपादं कृच्छार्ध प्राजापत्यम् । शूद्रायाः शूद्रसेवने प्राजापत्यम् । ब्राह्मणराजन्यवेश्यसेवायां त्वहोरात्रं त्रिरात्रं कृच्छ्ार्धम्’ इति । शूद्रसेवायां तु विशेषो बृहत्प्रचेतसोक्तः –“विप्रा शूद्रेण संपृक्ता न चेत्तस्मात्प्रसूयते । प्रायश्चित्तं स्मृतं तस्याः कृच्छ् चान्द्रायणत्रयम् ॥ एतदनिच्छन्त्यां स्वपतिभ्रान्त्या वा वेदितव्यम् । “चान्द्रायणे द्वे कृच्छूश्च विप्राया वैश्यंसेवने । कृच्छ्चान्द्रायणे स्यातां तस्याः क्षत्रियसंगमे ॥ क्षत्रिया शूदसंपर्क कृच्छं चान्द्रायणद्वयम् । चान्द्रायणे सकृच्छं तु चरेद्वैश्येन संगता ॥ शूद्रं गत्वा चरेद्वेश्या कृच्छू चान्द्रायणोत्तरम् । आनुलोम्ये प्रकुर्वीत कृच्छू पादावरोपितम् ॥ इति । प्रजातायास्तु चतुर्विंशतिमते विशेय उक्त –“वेिप्रगाभे पराकः स्यात्क्षत्रि यस्य तथन्द्वम् । एऐन्दवश्च पराकश्च वश्यस्याकामकार शूद्रगभे भवेत्या गश्चाण्डालो जायते यतः । गर्भस्राचे धातुदोषेश्वरेचान्द्रायणत्रयम् ।।' इति । अकामकारत इति विशेघणोपादानात् कामकारे पुनः पराकादिकं द्विगुणं कुर्यात् । यदा त्वनिःसृतगभैव दशमासं स्थित्वा प्रजायते तदा प्रायश्चित्ताभावः ।

  • ब्राह्मणक्षत्रियविशां भार्याः शूद्रेण संगता । अप्रजाता विशुद्धयन्ति प्रायश्चित्तेन

नेतराः ॥’ इति वसिष्ठस्मरणात् । यदा त्वाहितगर्भव पश्चाच्छूद्रादिभिव्यैभि वरति तदा गर्भपातशङ्कया प्रसवोत्तरकालएव प्रायश्चित्तं कुर्यात् । ‘अन्तर्वली तु या नारी समेताक्रम्य कामेिना । प्रायश्चित्तं न कुर्यात्सा यावद्भभे न निःसृतः ॥ जाते गर्भ व्रतं पश्चात्कुर्यान्मासं तु यावकम् । न गर्भदोषस्तस्यास्ति संस्कार्यः स यथाविधि ॥’ इति स्मृत्यन्तरदर्शनात् । यदा त्वौद्धत्यात्प्रायश्चित्तं न कुर्वन्ति तदा नार्याः कर्णादिकर्तनमिति द्रष्टव्यम् ॥ अन्त्यजादिगमनेऽपि स्त्रीणां स्मृत्य न्तरे प्रायश्चित्तं दर्शितम्--'रजकव्याधशैलषवेणुवमपजीविनः । ब्राह्मण्येता न्यदा गच्छेदकामादैन्दवत्रयम् ॥' इति । तथा चाण्डाल्याद्यन्त्यजागमनेऽपि

  • चाण्डालं पुल्कसं म्लेच्छं श्वपाकं पतितं तथा । ब्राह्मण्यकामतो गत्वा चान्द्रायण

चतुष्टयम् ॥' इति । अकामत इति वचनात्कामतो द्विगुणं कल्प्यम् । तथा 'चाण्डालेन तु संपर्क यदि गच्छेत्कथंचन । सशिखं वपनं कुर्याद्भदुञ्जीयाद्यावकौद् नम् ॥ त्रिरात्रमुपवासः स्यादेकरात्रं जले वसेत् । आत्मना संमेिते कूपे गोम १ वैश्यसंगमे । ड. २ दकामादैन्दवद्वयमिति पाठान्तरम्. ३ संमिते कर्षे ड