पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रायश्चित्तप्रकरणम् ५ ] मिताक्षरासहिता । तु संवत्सरं निरन्तराभ्यासेनेति युक्तं ‘वत्सरं सोऽपि तत्समः’ इति अत्यन्तसंयो गवाचिन्या द्वितीयया दर्शनादन्तरितदिवसगणना कार्या । यथा षष्टयधिकश तत्रयदिवसव्यापित्वं संसर्गस्य भवति ततो न्यूने तु न पतितप्रायश्चित्तं किंत्वन्यदेव । यथाह पराशरः–‘संसर्गमाचरन्विप्रः पतितादिष्वकामत । पञ्चाहं वा दशाहं वा द्वादशाहमथापि वा ॥ मासार्ध मासमेवकं वा मासत्र यमथापि वा । अब्दार्धमेकमब्दं वा भवेदूध्र्वं तु तत्समः ॥ त्रिरात्रै प्रथमे पक्षे द्वितीये कृच्छूमाचरन् । चरेत्सान्तपनं कृच्छं तृतीये पक्ष एव तु । चतुर्थे दृशरात्रं स्यात्पराकः पञ्चमे तत । षष्ठे चान्द्रायणं कुर्यात्ससमे त्वैन्दवद्वयम् ॥ अष्टमे च तथा पक्षे षण्मासान्कृच्छूमाचरेत् ॥' इति । कामतः संसर्गे पुनर्वि शेषः स्मृत्यन्तरेऽभिहितः-सुमन्तुः-पञ्चाहे तु चरेत्कृच्छू दशाहे तप्तकृच्छ् कम् । पराकस्त्वर्धमासे स्यान्मासे चान्द्रायणं चरेत् ॥’ इति । ‘मासत्रये प्रकु वत कृच्छं चान्द्रायणोत्तरम् । षाण्मासिके तु संसर्गे कृच्छ त्वब्दार्धमाचरेत् । संसर्गे त्वाब्दिके कुर्यादब्दं चान्द्रायणे नर ।।' इति । अत्र चाब्दिके संसर्गे इति किंचिन्नयून इति द्रष्टव्यम् । पूर्णे तु वत्सरे मन्वादिभिद्वादशवार्षिकस्सर णात् । यत्तु बार्हस्पत्यं वचनम्-‘षाण्मासिके तु संसर्गे याजनाध्यापनादिना । एकत्रासनशय्याभिः प्रायश्चित्तार्धमाचरेत् ॥’ इति । याजनाध्यापनयानैकपात्र भोजनानां षण्मासात्पातित्यवचनमेतदकामतोऽत्यन्तापदि पञ्चमहायज्ञादिप्राये याजनेऽङ्गाध्यापने दुहितृभगिनीव्यतिरिक्त च योनिसंबन्धे द्रष्टव्यम् । प्रकृष्टया जनादिभिः सद्यःपातित्यस्योक्तत्वात् । एतद्दिगवलम्बनेनैव दुहितृभगिनीजुषा गाम्यतिपातकिसंसर्गिणां कामतो नववार्षिकं अकामतः सार्धचतुर्वार्षिकं कल्प नीयम् । सखिपितृव्यदारादिगामिपातकिसंसर्गिणां कामतः षङ्कार्षिकमकामतः खैवार्षिकम् । अथोपपातक्यादिसंसर्गिणामपि कामतस्तदीयमेव त्रैमासिकमका मतोऽर्धमित्यूहनीयम् । पुरुषवत्स्त्रीणामपि महापातक्यादिसंसर्गात्पातित्यमविः शिष्टम् । यथाह शौनक –“पुरुषस्य यानि पतननिमित्तानि स्त्रीणामपि तान्येव ।' ब्राह्मणी हीनबर्णसेवायामधिकं पततीति । अतस्तासामपि महापातकि प्रभृतीनां मध्ये येन सह संसर्गस्तदीयमेव प्रायश्चित्तमर्धकृत्या योजनीयम् । एवं बालवृद्धातुराणामपि कामतोऽर्धमकामतः पादः । तथानुपनीतस्यापि बालस्य कामतः पादोऽकामतस्तदर्धमित्येषा दिक् ॥ १ भ्यस्तेनेति ङ. या० ३८ पतितसंसर्गप्रतिषेधेन प्रतिषिद्धस्य यौनसंबन्धस्य कृचित्प्रतिप्रसवमाह-- कन्यां समुद्वहेदेषां सोपवासामकिंचनाम् ।। २६१ ॥ एषां पतितानां कन्यां पतितावस्थायामुत्पन्नां सोपवासां कृतसंसर्गकालो चितप्रायश्चित्तामकिंचनामगृहीतवस्रालंकारादिपेितृधनामुद्वहेत् । कन्यां समुद्धहे दिति वदन्स्वयमेव कन्यां त्यक्तपतितसंसर्गा समुद्वहेन्न पुनः पतितहस्तात्प्रति २ मर्धकृस्या उ