पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४१२ याज्ञवल्क्यस्मृतिः । कृच्छ्ाब्दमाचरेज्ज्ञानादज्ञानादैन्दवद्वयम् ॥’ इति यमाद्युक्तं संवत्सरं कृच्छूानु ष्ठानं चान्द्रायणद्वयं यथाक्रमेण द्रष्टव्यम् । स्वयोनेिष्वन्त्यजासु चेत्येकवाक्यसम भिव्याहाराद्भगिन्यादिष्वपीयमेव व्यवस्था वेदितव्या । मरणान्तिकं चात्राप्ति प्रवेशनम् । ‘जनन्यां च भगिन्यां च स्वसुतायां तथैव च । खुषायां गमनं चैव विज्ञेयमतिपातकम् ॥ अतिपातकिनस्त्वेते प्रविशेयुर्डताशनम् ॥' इति कात्या यनस्मरणात् । जनन्यां सकृद्भमने भगिन्यादिषु चासकृद्धमने अन्निप्रवेश इति द्रष्टव्यम् । महापातकस्य जननीगमनस्य तदतिदेशविषयभूतातिपातकस्य भगि न्यादिगमनस्य च तुल्यत्वायोगात् । यत्तु बृहृद्यमेनोक्तम्--'चाण्डालीं पुल्कसीं म्लेच्छीं लुषां च भगिनीं सखीम् । मातापित्रोः स्वसारं च निक्षिसां शरणा गताम् ॥ मातुलानीं प्रब्रजितां स्वगोत्रां नृपयोषितम् । शिष्यभार्या गुरोभयः गत्वा. चान्द्रायणं चरेत् ॥” इति, यञ्चाङ्गिरोवचनम् --'पतितान्त्यस्त्रियो गत्वा भुक्त्वा च प्रतिगृह्य च । मासोपवासं कुर्वीत चान्द्रायणमथापि वा ॥” इति, तदुभयमपि गुरुतल्पातिदेशविषयेषु कामतः प्रवृत्तस्य रेतःसेकादर्वाङ्गिवृत्तौ द्रष्टव्यम् । यदपि संवर्तवचनम् -‘भगिनीं मातुराप्तां च स्वसारं चान्यमातृ जाम्, । एता गत्वा स्त्रियो मोहात्तसकृच्छद्रं समाचरेत् ।।' इति, तदनन्तरोक्त एव विषये अकामतः प्रवृत्तस्य रेतःसेकादर्वाङ्गिवृत्तौ द्रष्टव्यम् । यदा पुनरेता एवा त्यन्तव्यभिचारिणीर्गच्छति तदापीदमेव प्रायश्चित्तयुगलं चान्द्रायणतसकृच्छ् त्मकं क्रमेण कामतोऽकामतश्च प्रवृत्तौ द्रष्टव्यम् । साधारणस्त्रीषु तु गुरुणोप भुक्तास्वपि गमने गुरुतल्पत्वदोषो नास्ति । ‘जात्युतं पारदार्य च कन्यादूषणमेव च । साधारणस्त्रियां नास्ति गुरुतल्पत्वमेव च ॥’ इति व्याघस्मरणात् । एवम न्यान्यपि स्मृतिवचनान्युच्चावचप्रायश्चित्तप्रतिपत्तिपराण्यन्विष्य विषयव्यवस्थो हनीया ग्रन्थगौरवभयान्न लिख्यन्ते ॥ २६० ॥ इति गुरुतल्पप्रायश्चित्तप्रकरणम् । [प्रायश्चित्ताध्यायः एवं ब्रह्महादिमहापातकिप्रायश्चित्तान्यभिधायावसरप्रासं तत्संसर्गिप्रायश्चित्त एभिस्तु संवसेद्यो वै वत्सरं सोऽपि तत्समः । एभिः पूर्वोत्तैर्बह्महादिभिरेकं संवत्सरं योऽत्यन्तं संवसति सहाचरति सोऽपि तत्समः । यो येन सहाचरति स तदीयमेव प्रायश्चित्तं कुर्यादिति तदीयप्रायश्चि तातिदेशार्थ तत्समग्रहणम्न पुनः पातकित्वातिदेशार्थम् । तस्य ‘यश्च तैः सह संवसेत्’ इत्युपदेशत एव सिद्धत्वात् । अत्र च सत्यप्यतिदेशैत्वे कृत्स्रमेव द्वादशवार्षिकं कार्यम्, साक्षान्महापातकित्वात्संसर्गिणः अपिशब्दान्न केवलं महापातकिसंयोगी तत्समः किंत्वतिपातकीपातक्युपपातक्यादीनां मध्ये यो येन सह संसर्ग करोति सोऽपि तत्सम इति तदीयमेव प्रायश्चित्तं कुर्यादिति दर्शयति १. पातकत्वा ख. २. अतिदेशकत्वे ङ