३९४ याज्ञवल्क्यस्मृतः । येदेनः पुण्यं गत्वा तु सागरम् । ह्महापि प्रमुच्येत स्नात्वा तस्मिन्महोदधौ । ततः पूतो गृहं प्राप्य कृत्वा ब्राह्मणभोजनम् । दत्त्वा वस्त्रं पवित्राणि पूतात्मा प्रविशेद्वहम् ॥ गवां वापि शतं दद्याचातुर्विद्याय दक्षिणाम् । एवं शुद्धिमवा झोति चातुर्विद्यानुमोदितः ॥’ इति । तदपि पात्रे धनं वा पर्याप्तमित्यनेन समान विषयम् । यच्च सुमन्तुवचनम्--ब्रह्महा संवत्सरं कृच्छू चरेदधःशायी त्रिषवणी कर्माचेदको भैक्षाहारो दिव्यनदीपुलिनसंगमाश्रमगोष्टपर्वतस्रवणतो वनविहारी स्यात् स्थानवीरौसनी संवत्सरे पूर्णे हिरण्यमणिगोधान्यतिलभूमिस प्रषि ब्राह्मणेभ्यो ददत्पूतो भवति' इति तदपि हन्तुर्मुर्खस्य धनवतो जातिमात्र व्यापादने द्रष्टव्यम् । यत्पुनर्वसिष्ठवचनम्--'द्वादशरात्रमब्भक्षो द्वादशरात्र मुपवसेत्’ इति तन्मनसाध्यवसितब्रह्महत्यस्य स्वत एवोपरतजिवांसस्य वेदित व्यम् । यत्पुनः-‘षण्ढं तु ब्राह्मणं हत्वा शत्रदहत्यात्रत चरेत् । चान्द्रायणं वा कुर्वीत पराकद्वयमेव च ॥’ इति षटूत्रिंशन्मतवचनं तदप्रत्यानेयपुंस्त्वस्य सप्रत्ययवधे द्रष्टव्यम् । अत्रैव विषये अप्रत्ययवधे बृहस्पतिरराह-‘अरुणाया सरस्वत्याः संगमे लोकविश्रुते । शुद्धयेत्रिपवणस्रायी त्रिरात्रोपोषितो द्विजः ॥ इति । एवमन्यान्यपि स्मृतिवचनान्यन्विप्य विपमाणां व्यवस्था विज्ञेया । समानां तु विकल्पः । एतानि च द्वादशवार्षिकादिधनदानपर्यन्तानि ब्राह्मणस्यैव । क्षत्रियादेस्तु द्विगुणादिकम् । यथाहाङ्गिराः–“पर्षद्या ब्राह्मणानां तु सा राज्ञां द्विगुणा मता । वैश्यानां त्रिगुणा प्रोक्ता पर्षद्वच ब्रतं स्मृतम् ॥' इति । एवं च ब्राह्मणानां येन हन्तृहन्यमानगतगुणविशेषेण यः प्रायश्चित्तविशेपो व्यवस्थितः स एव तदुणविशिष्ट क्षत्रियादौ हन्तरि द्विगुणस्त्रिगुणो वेदितव्य । अनयैव दिशा क्षत्रियवैश्यादावपि हीनेनोत्कृष्टवधे दोषगौरवात्प्रायश्चित्तस्यापि द्वैगुण्यादि कल्पनीयम् । दोषगौरवं च दण्डगोरवादवगम्यते । यथोक्तम्—‘प्रतिलोमापवा देषु द्विगुणस्रिगुणो दमः । वर्णानामानुलोम्ये च तस्मादधर्धहानितः ॥’ इति । यत्तु चतुर्विशतिमतवचनम्–‘प्रायश्चित्तं यदाम्रातं ब्राह्मणस्य महर्षिभिः । पादोनं क्षत्रियः कुर्याद्धं वैश्यः समाचरेत् ॥ शूद्रः समाचरेत्पादमशेषेष्वपि पाप्मसु ॥' इति तत्प्रतिलोमानुष्टितचतुर्विधसाहसव्यतिरिक्तविषयम् । तथा मूर्धा वसिक्तादीनामप्यनुलोमोत्पन्नानां दण्डवत्प्रायश्चित्तमूहनीयम् । दर्शितं दण्डता रतम्यम्--'दण्डप्रणयनं कार्य वर्णजात्युत्तराधरैः’ इति । ततश्च मूर्धावसिक्तस्य ब्राह्मणवधे ब्राह्मणादतिरिक्त क्षत्रियान्यूनमध्यर्ध द्वादशवार्षिकं भवति । अनयैव दिशा प्रतिलोमोत्पन्नानामपि प्रायश्चित्तगौरवमूहनीयम् । तथा आाश्रमिणमपिा अङ्गिरसा विशेषो दर्शितः–‘गृहस्थोक्तानि पापानि कुर्वन्त्याश्रमिणो यदि । शौचवच्छोधनं कुर्युरर्वाग्ब्रह्मनिदर्शनात् ॥’ इति शौचवदिति-(मनुः-५॥१३७) एतच्छौचं गृहस्थानां द्विगुणं ब्रह्मचारिणाम् । त्रिगुणं तु वनस्थानां यतीनां तु चतु र्गुणम्।।' इति वचनाद्यथा ब्रह्मचार्यादीनां शौचं द्वैगुण्यादिक्रमेण वर्धते तथा शोधनं [ प्रायश्चित्ताध्यायः १ ब्रह्महा विप्रमुच्येत ङ. ३२ वीरासनेन संवत्सरे
पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४२०
दिखावट