३९२ याज्ञवल्क्यस्मृतः । [ प्रायश्चित्ताध्यायः नाष्टौ होमान्कृत्वान्ते ततुं प्रक्षिपेत् । अतो यत्कैश्चिदुक्तमनादिष्टद्रव्यत्वादाज्यह विष्का होमा इति, तदनिरूप्यैवोक्तमित्युपेक्षणीयम् । जुहुयादित्यनेनासौ सिद्धे श्रूणहान्निमुपसमाधायेति पुनरशिग्रहणं लौकिकाझिप्रास्यर्थम् । युक्तं चैतत् पतिताझीनाँ प्रतिपत्तिविधानात्–“आहिताद्भिस्तु यो विप्रो महापातकभाग्भवेत् । प्रायश्चितैर्न शुद्धयेत तद्झीनां तु का गतिः । वैतार्न प्रक्षिपेत्तोये शालाि इत्युशनःस्मरणात् । तथा महापातकसंयुक्तो दैवात्स्याद् झिमान्यदि । पुत्रादिः पालयेदद्भीन्युक्तश्चादोषसंक्षयात् । प्रायश्चित्तं न कुर्याद्य कुर्वन्वा म्रियते यदि । गृह्य निवार्पयेच्छैोतमप्स्वस्येत्सपरिच्छदम् ॥’ इति कात्यायनस्मरणात् । तनुप्रक्षेपश्चोत्थायोत्थाय त्रिरधोमुखेन कर्तव्यः । यथाह मनुः (११॥७३) -प्रायेदात्मानमझेौ वा समिद्धे त्रिरवाकूशिराः’ इति गौतमेनाप्यत्र विशेषो दर्शितः–‘प्रायश्चित्तमन्नेौ सक्तिर्बह्मन्नस्त्रिरवच्छातस्य इति । अवच्छातस्य अनशनकार्शितकलेवरस्येत्यर्थ । तथाच काठकश्रुतिः “अनशनेन कर्शितोऽझिमारोहेत्’ इति । इदं च मरणान्तिकं प्रायश्चित्तं कामकार विषयम् । यथाह मध्यमाङ्गिराः–“प्राणान्तिकं च यत्प्रोक्तं प्रायश्चित्तं मनीषिभिः । तत्कामकारविषयं विज्ञेयं नात्र संशय ।।' इति । तथा–‘यः कामती महापापं नरः कुर्यात्कथंचन । न तस्य शुद्धिर्निर्दिष्टा भृग्वन्निपतनादृते ।।' इति । एतच्च प्रायश्चित्तं स्वतन्त्रमेव न ब्राह्मणत्राणादिवत् द्वादशवार्षिकान्तर्भूतमित्युक्तं संग्रामे वा हतो लक्ष्यभूतः शुद्धिमवापुयात् । मृतकल्पः प्रकारात जीवन्नपि विशुद्धयति ।। २४८ ।। किंच । अथवा संग्रामे युद्धभूमावुभयबलप्रेरितशरसंपातस्थाने लक्ष्यभूतो मृतः शुद्धिमवापुयात् । गाढमर्मप्रहारजनिततीव्रवेदनो मृतकल्पो मूच्छितो जीवन्नपि विशुद्धयति । लक्ष्यभावश्च प्रायश्चित्ती अयमिलेयेवं विदुषां धनुर्विद्याविदां संग्रामे खेच्छया कर्तव्यो नतु राज्ञा बलात्कारयितव्य । यथाह मनुः (११॥ १७)-“लक्ष्यै शस्त्रभृतां वा स्याद्विदुषामिच्छयात्मनः’ इति । इदं च मरणा न्तिकत्वात्साक्षात्कर्तु क्षत्रियस्य कामकारविषयम् । अपिशब्दादश्वमेधादिनापि विशुद्धयति । यथाह मनुः ( ११॥७४)–‘यजेत वाश्वमेधेन स्वर्जिता गोसवेन च । अभिजिद्विश्वजिज्ञद्यां वा त्रिवृताद्भिष्टुतापि वा ॥’ इति । अश्वमेधानुष्ठानं सार्व भौमक्षत्रियस्यैव ।–‘यजेत वाश्वमेधेन क्षत्रियस्तु महीपतिः’ इति पराशर स्मरणात् । 'नासार्वभौमो यजेत’ इत्यसार्वभौमस्य प्रतिषेधदर्शनाच्च । इदं चाश्वमेधानुष्ठानं सार्वभौमस्य कामकारकृते मरणान्तिकस्थाने द्रष्टव्यम् । महापातककर्तारश्चत्वारो मतिपूर्वकम् । अ िप्रविश्य शुद्धयन्ति स्थित्वा वा महति क्रतौ ॥’ इति यमेन मरणकालाग्निप्रवेशतुल्यतया महाक्रतोरश्वमेधस्य निर्दिष्ट त्वात् । स्वर्जितादयश्च त्रैवर्णिकस्याहितामेरिष्टप्रथमयज्ञस्य द्वादशवार्षिकेण सह १ इविष्कामो होम इति ङ. २ गृह्य वा निर्वपेच्छौतं ङ
पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४१८
दिखावट