३६८ याज्ञवल्क्यस्मृतिः । [ प्रायश्चित्ताध्यायः महापातकजान्घोरान्नरकान्प्राप्य दारुणान् । कर्मक्षयात्प्रजायन्ते महापातकिनस्त्विह ।। २०६ ।। ब्रह्महत्यादिपञ्चकस्य महापातकसंज्ञा ब्रह्महा मद्यप इत्यत्र वक्ष्यते तद्योगिनो महापातकिनस्ते महापातकजनितांस्तामिस्त्रादिनरकान्स्वजनितदुष्कृतानुरूपानू धो रानतितीव्रवेदनापादकत्वेनातिभयंकरान्दारुणान्दुःखैकभोगनिलयान्प्राप्य कर्मक्षः यात् कर्मजन्यनरकदुःखोपभोगक्षयादनन्तरं कर्मशेषात्पुनरिह संसारे दुःख बहुलश्श्वस्मृगालादितिर्यग्योनिषु प्रकर्षेण भूयोभूयो जायन्ते । महापातकिग्रहण मेितरेषामप्युपपातक्यादीनामुपलक्षणम् । तेषां च तिर्यगादियोनिप्राप्सर्वेक्ष्य माणत्वात् ॥ २० ६ ॥ महापातकिनां संसारप्राप्तिमुक्त्वा तद्विशेषकथनायाह मृगश्वसूकरोष्ट्राणां ब्रह्महा योनिमृच्छति । खरपुल्कसवेणानां सुरापो नात्र संशयः ।। २०७ ।। कृमिकीटपतङ्गत्वं खर्णहारी समापुयात् । तृणगुल्मलतात्वं च क्रमशो गुरुतल्पगः ।। २०८ ।। मृगा हरिणादयः श्वसूकरोष्ट्राः प्रसिद्धाः तेषां योनिं ब्रह्महा स्वकर्मशेषेण प्रामोति । खरो रासभः पुल्कसः प्रतिलोमनिषादेन शूद्यां जातः वैदेहकेनाम्बष्टयाँ जातो वेणस्तेषां योनिं सुरापः प्राप्तोति । कृमयः सजातीयसंभोगनिरपेक्षां मांस विष्टागोमयादिजन्या , ततः किंचित्स्थूलतराः पक्षास्थिरहिताः पिपीलिकाद्यः कीटाः, पतङ्गः शलभाः, तेषां योनिं ब्राह्मणस्वर्णहारी प्रामुयात् । तृणं काशादि, गुल्मलते प्रागुक्त, तज्जातीयतां क्रमेण गुरुतल्पगः प्राश्नोति । एतच्चाकामकृत विषयम् । कामकारकृते त्वन्थास्वपि दुःखबहुलयोनिषु संसरन्ति । यथाह मनुः (१२॥५-५८)–‘श्वसूकरखरोष्ट्राणां गोवैजिमृगपक्षिणाम् । चाण्डालपुल्कें सानां च ब्रह्महा योनिमृच्छति ॥ कृमिकीटपतङ्गानां विक्षुभुजां चैव पक्षिणाम् । हिंखाणां चैव सत्त्वानां सुरापो ब्राह्मणो व्रजेत् ॥ लठूताऽहिसरठानां च तिरश्चां चाम्बुचारिणाम् । हिंखाणां च पिशाचानां स्तेनो विप्रः सहस्रशः ॥' लूतोर्णनाभः । सरठः कृकलासः ।-‘तृणगुल्मलतानां च क्रव्यादौ दंष्ट्रिणामपि । क्रूरकर्मकृतां चैव शतशो गुरुतल्पग ॥' इति ॥ २०७ ॥ २०८ ॥ एवं च तिर्यक्त्वादुत्तीर्णानां मानुष्ये रोगादि लक्षणानि भवन्तीत्याह ब्रह्महा क्षयरोगी स्यात्सुरापः श्यावदन्तकः । हेमहारी तु कुनखी दुश्चर्मा गुरुतल्पगः ।। २०९ ।। यो येन संवसत्येषां स तछिङ्गोऽभिजायते । १ ख वेनानां . २ योनीः ख. ३ गोऽजाविमृगपक्षिणामिति पाठः. ४ पुष्कसानां च ड
पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३९४
दिखावट