पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यतिधर्मप्रकरणम् ४ ] मिताक्षरासहिता । ३४१ बौद्धा । नह्यचेतनायाः प्रकृतेर्नामरूपव्याकृतविचित्रभोकृवर्गभोगानुकूलभोग्य भोगायतनादियोगिजगत्प्रपञ्चरचना घटते । तस्मादात्मैव कर्ता । तथा स एव ब्रह्म बृहको विस्तारकः । नचासैौ निर्गुणः । यतस्तस्य त्रिगुणशक्तिरविद्या प्रकृतिप्र धानाद्यपरपर्याया विद्यते । अतः स्वतो निर्गुणत्वेऽपि शक्तिमुखेन सत्त्वादिगुण योगी कथ्यते । नचैतावता प्रकृतेः कारणता, यस्मादात्मैच वशी स्वतन्त्रः न प्रकृ तिनम स्वतत्रं तत्त्वान्तरं, तादृग्विधत्वे प्रमाणाभावात् । नच वचनीयं शक्ति रूपापि सैव कर्तृभूतेति । यतः शक्तिमत्कारकं न शक्तिः, तस्मादात्मैव जगतस्त्रि विधमपि कारणम् । तथा अज उत्पत्तिरहितः । अतस्तस्य यद्यपि साक्षाज्जननं नोपपद्यते तथापि शरीरग्रहणमात्रेण जात इत्युच्यते अवस्थान्तरयोगितयोत्पत्ते गृहस्थो जात इतिवत् ॥ ६९ ॥ शरीरग्रहणप्रकारमाह सर्गादौ स यथाकाशं वायुं ज्योतिर्जलं महीम् । सृजत्येकोत्तरगुणांस्तथादत्ते भवन्नपि ॥ ७० ॥ सृष्टिसमये स परमात्मा यथाकाशादीन् शब्दैकगुणं गगनं, शब्दस्पर्शगुण पवनः, शब्दस्पर्शरूपगुणं तेजः, शब्दस्पर्शरूपरसगुणवदुदकम्, शब्दस्पर्शरूपरस गान्धगुणा जगतीत्येवमेकोत्तरगुणान् सृजति । तथात्मा जीवभावमापन्नो भवत्रु त्पद्यमानोऽपि स्वशरीरस्यारम्भकत्वेनापि गृह्णाति ॥ ७० ॥ कथं शरीरारम्भकत्वं पृथिव्यादीनामित्यत आह आहुत्याप्यायते सूर्यः सूर्यादृष्टिरथौषधिः। तदन्नं रसरूपेण शुक्रत्वमधिगच्छति ।। ७१ ।। यजमानैः प्रक्षिसयाहुत्या पुरोडाशादिरसेनाप्यायते सूर्यः । सूर्याच कालव शेन परिपक्राज्यादिहवीरसादृष्टिर्भवति । ततो ब्रीह्याद्यौषधेिरूपमन्नम् । तच्चान्ने सेवितं सतू रसरुधिरादिक्रमेण शुक्रशोणितभावमापद्यते ॥ ७१ ॥ ततः किमिलयत आह-- स्त्रीपुंसयोस्तु संयोगे विशुद्धे शुक्रशोणिते । पञ्चधातून्स्वयं षष्ठ आदत्ते युगपत्प्रभुः ।। ७२ ।। ऋतुवेलायां स्त्रीपुंसयोर्योगे शुकं च शोणितं च शुकशोणितं तस्मिन्परस्पर संयुक्त विशुद्धे ‘वातपित्तश्लेष्मदुष्टग्रन्थिपूयक्षीणमूत्रपुरीषगान्धरेतांस्यबीजानि’ इति स्मृत्यन्तरोक्तदोषरहिते स्थित्वा पञ्चधातून् पृथिव्यादिपञ्चमहाभूतानि शरी रारम्भकतया स्वयं षष्ठश्चिद्धातुरात्मा प्रभुः शरीरारम्भैकारणादृष्टकर्मयोगितया समर्थो युगपदादत्ते योगायतनत्वेन स्वीकरोति' । तथाच शारीरके–‘स्त्रीपुं सयोः संयोगे योनौ रजसाभिसंसृष्टं शुक्र तत्क्षणमेव सह भूतात्मना गुणैश्च सत्वरजस्तमोभिः सह वायुना प्रेर्यमाणं गर्भाशये तिष्ठति' इति ॥ ७२ ॥ १ रसवदुदकम् ख . २ रम्भकरणे दुष्ट .