आशौचप्रकरणम् १ ] मिताक्षरासहिता । २९५ पुरःसरनुत्रज्योऽनुगन्तव्यः । अस्मादेव वचनादूनद्विवर्षस्यानुगमनमनियतमिति गम्यते ॥ अनुगम्य च ‘परेयिवांसम्’ इत्यादि यमसूक्तं यमदैवत्या गाथाश्च जपट्टिलैौकिकेनासंस्कृतेनान्निना दग्धव्यो यदि जातारणिनर्नास्ति । तत्सद्भावे तु तन्मथितेन दग्धव्यो न लौकिकेन । तस्याप्तिसंपाद्यकार्यमात्रार्थत्वेनोत्पत्तेः । लौकिकाग्निश्च चण्डालादिव्यतिरिक्तो ग्राह्य ।–“चण्डालाग्रिमेध्यान्निः सूति काग्निश्च कर्हिचित् । पतिताग्निश्चिताप्तिश्च न शिष्टग्रहणोचिता ।।' इति देवल स्मरणात् ॥ लौगाक्षिणा चात्र विशेष उक्तः–‘तूष्णीमेवोदकं कुर्यात्तूष्णीं संस्कारमेव च । सर्वेषां कृतचूडानामन्यत्रापीच्छया द्वयम् ॥’ इति । अयमर्थ –“चौलकर्मानन्तरकाले नियमेनाश्युदैकदानं कार्यम् । अन्यत्रापि मकरणादूध्र्व अकृतचूडेऽपीच्छया प्रेताभ्युदयकामनया द्वयं अश्युदकदाना त्मकं तूष्णीं कार्यं न नियमेनेति विकल्पः । मनुनाप्यत्र विशेषो दर्शित (५॥७०)–“नात्रिवर्षस्य कर्तव्या बान्धवैरुदकक्रिया । जातदन्तस्य वा कुर्यान्नान्नि वाऽपि कृते सति ।।' इति । उदकग्रहणं साहचर्यादग्निसंस्कारस्याप्युपलक्षणार्थम् । नात्रिवर्षस्य’ इति वचनातू । कुलधर्मापेक्षया चूडोत्कर्षेऽपि वर्षत्रयादूध्र्व मन्युदकदानादिनियमोऽवगम्यते । लौगाक्षिवचनाद्वर्षत्रयात्प्रागपि कृतचूडस्य तयोर्नियम इति विवेचनीयम् । उपेतश्चेद्यद्युपनीतस्तर्हि आहिताग्यैावृता आहिता झेर्दाहप्रक्रियया स्वगृह्यादिप्रसिद्धया लौकिकाझिनैव दग्धव्यः । अर्थवत्प्रयोजनवत् । अयमर्थः--यद्यस्य कृतं दाहद्वारं कार्यरूपं प्रयोजनं संभवति भूमिजोषण ओोक्षणादि तदुपादेयम् । यत्पुनर्लसप्रयोजनं पात्रयोजनादि तन्निवर्तते । तथा लौकिकाग्निविधानेनोपनीतस्य अनाहितान्नेर्गुह्यान्निना दाहविधानेन च अपहृत प्रयोजनत्वादाहवनीयादेरपि निवृत्तिरिति । अझ्यन्तरविधानं च वृद्धयाज्ञव ल्क्येनोक्तम्-*आहिताग्निर्यथान्यायं दग्धव्यस्त्रिभिरग्निभिः । अनाहिताझिरेकेन लौकिकेनापरो जन ।॥’ इति । नच शूद्रेण श्मशानंप्रति अग्निकाष्ठादिनयनं कार्यम् यस्यानयति शूद्रोऽझिं तृणं काष्ठं हवींषि च । प्रेतत्वं हि सदा तस्य स चाध मेण लिप्यते ॥'इति यमस्मरणात् ॥ तथा दाहश्च स्नपनानन्तरै कार्च प्रेतं दहेच्छुभैर्गन्धैः खापितं स्रग्विभूषितम्’ इति स्मरणात् । प्रचेतसा ऽप्युक्तम् ।-स्नानं प्रेतस्य पुत्रायैर्वस्राचैः पूजनं तथा । नवदेहं दहेत्रैव किंचिः द्वेयं परित्यजेत् ॥’ इति । किंचिद्देयमिति शववत्रैकदेशं श्मशानवास्यर्थ देयं परित्यजेदित्यर्थः । तथा प्रेतनिर्हरणेऽपि मनुना विशेषो दर्शितः (५॥१०४)
- न विअं खेषु तिष्ठत्सु मृतं शूद्रेण हारयेत् । अस्वग्र्या ह्याहुतिः सा स्याच्छूद्रः
संपर्कदूषिता ॥’ अत्र चव स्वेषु तिष्ठत्सु इत्यविवक्षितम् । अस्वग्र्यत्वादिदोष श्रवणात् ॥–‘दक्षिणेन मृतं शूदं परद्वारेण निर्हरेत् । पश्चिमोत्तरपूर्वेस्तु यथा संख्यं द्विजातय ॥’ तथा हारीतोऽपि –“न प्रामाभिमुखं प्रेतं हरेयुः' इति । यदा तु प्रोषितमरणे शरीरं न लभ्यते तदास्थिभिः प्रतिकृतिं कृत्वा तेषामप्यः १ उदकदानात्मकं क. २ आहिताझेदनप्रक्रिया ड. ३ आहितान्नेः स्वगृह्यान्निनाङ या० २८