पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९२ याज्ञवल्क्यस्मृतेिः । . [ व्यवहाराध्यायः ब्राह्मणलिङ्गानि दर्शयति तेषामष्टशतो दमः । अष्टौ पणशतानि यस्मिन्दमे स तथोक्तः । ‘श्राद्धभोजनार्थ पुनः शूद्रस्य विप्रवेषधारिणस्तसशलाकया यज्ञोपवीत. वद्वपुष्यालिखेत्’ इति स्मृत्यन्तरोत्तं द्रष्टव्यम् । वृत्त्यर्थ तु यज्ञोपवीतादिब्राह्मण लिङ्गधारिणो वध एव ।–‘द्विजातिलिङ्गिनः शूद्रान्धातयेत्’ इति स्मरणात् ३०४ रसगलोभादिनाऽन्यथा व्यवहारदर्शने दण्डमाह दुर्दष्टांस्तु पुनर्दष्टा व्यवहारान्नृपेण तु । सभ्याः सजयिनो दण्ड्या विवादाद्विगुणं दमम् ।। ३०५ ।। दुष्टान्स्मृत्याचारप्राप्तधर्मोलङ्कनेन रागलोभादिभिरसम्यग्विचारितत्वेनाशङ्कय मानान्व्यवहारान्पुनः स्वयं राजा सम्यग्विचार्य निश्चितदोषाः पूर्वसभ्याः संज यिनः प्रत्येकं विवादपदे यो दमः पराजितस्य तद्विगुणं दाप्याः । अप्रासजेतृ दृण्डविधिपरत्वाद्वचनस्य रागालोभादित्यादिना श्लोकेनापौनरुक्त्यम् । यदा पुन साक्षिदोषेण व्यवहारस्य दुर्दष्टत्वं ज्ञातं तदा साक्षिण एव दण्ड्या न जयी नापि सभ्याः । यदा तु राजानुमत्या व्यवहारस्य दुदृष्टत्वं ज्ञातं तदा सर्व एव राजसहित सभ्यादयो दण्डनीयाः ।–“पादो गच्छति कर्तारं पादः साक्षिणमृच्छति । पाद सभासदः सर्वान्पादो राजानमृच्छति ॥’ इति वचनात् । एतच्च प्रत्येक राजा दीनां दोषप्रतिपादनपरं न पुनरेकस्यैव पापापूर्वस्य विभागाय । यथोक्तम् कर्तृसमवायिफलजननस्वभावत्वादपूर्वस्य’ इति ॥ ३०५ ॥ न्यायतो निर्णतव्यवहारस्य प्रत्यावर्तयितुर्दण्डमाह-- यो मन्येताजितोऽस्मीति न्यायेनापि पराजितः । तमायान्तं पुनर्जित्वा दापयेद्विगुणं दमम् ।। ३०६ ।। यः पुनन्ययमार्गेण पराजितोऽपि औद्धत्यान्नाहं पराजितोऽस्मीति मन्यते तमायान्तं कूटलेख्याद्युपन्यासेल पुनर्धमर्माधिकारिणमधितिष्ठन्तं धर्मेण पुनः परा जयं नीत्वा द्विगुणं दण्डं दापयेत् ॥ नारदेनाप्युक्तम्-“तीरितं चानुशिष्टं वा यो मन्येत विधर्मतः । द्विगुणं दण्डमास्थाय तत्कार्य पुनरुद्धरेत् ।।' इति । तीरितं साक्षिलेख्यादिनिर्णीतमनुद्भुतदण्डम् । अनुशिष्टमुद्धृतदण्डम् । दण्डपर्यन्तं नीतमिति यावत् । यत्पुनर्मनुर्वचनम् ( ९॥२३३)–‘तीरितं चानुशिष्टं च यत्र कचन विद्यते । कृतं तद्धर्मतो ज्ञेयं न तत्प्राज्ञो निवर्तयेत् ॥' इति । तदर्थिप्रत्यार्थनोरन्यतरवचनाद्धद्यवहारस्याधर्मतो वृत्तत्वाशङ्कायां पुनद्विगुणदण्ड प्रतिज्ञापूर्वकं व्यवहारं प्रवर्तयेत् न पुनर्धर्मतो वृत्तत्वनिश्चयेऽपि राज्ञा लोभा दिना प्रवर्तयितव्य इत्येवंपरम् । यत्पुनर्तृपान्तरेणापि न्यायापेतं कार्य निचर्ति तदपि सम्यक्परीक्षणेन धम्यें पथि स्थापनीयम् । ‘न्यायापेतं यद्न्येन राज्ञा ज्ञान कृतं भवेत् । तदप्यन्यायविहितं पुनन्यये निवेशयेत् ॥' इति स्मरणात् ॥३०६॥ १ जयिसहिताः घ. २ दुष्टता तदा ख. ३ रेकैकस्यैव ख