२६८ याज्ञवल्क्य स्मृतः । [ व्यवहाराध्याय (८॥३९६)-‘शाल्मलीफलके श्लक्ष्णे निज्याद्वासांसेि नेजकः । नच वासांसि वासोभिर्निर्हरेन्न च वासयेत् ॥' इति मनुस्मरणात् ॥ यदा पुनः प्रमादात्तानि नाशयति तदा नारदेनोक्तं द्रष्टव्यम्–“मूल्याष्टभागो हीयेत सकृद्वैतस्य वाससः । द्विःपादस्विस्तृतीयांशश्चतुर्धतेऽर्धमेव च। ॥ अर्धक्षयात्तु परतः पादांशा पचयः क्रमात् । यावत्क्षीणदशं जीर्ण जीर्णस्यानियमः क्षय ॥' इति । अष्टपण क्रीतस्य सकृद्धौतस्य वस्रस्थ नाशितस्याष्टमभागपणोनं मूल्यं देयम् । द्विधौतस्य तु पादोनं पणद्वयोनं त्रिधौतस्य पुनस्तृतीयांशन्यूनम् । चतुधैौतस्यार्ध पणचतु ष्टयं देयम् । ततः परं प्रतिनिणेजनमवशिष्टं मूल्यं पैदपादापचयेन देयम् । यावजीर्णस्य पुनर्नाशितस्येच्छातो मूल्यदानकल्पनम् ॥ २३८ ॥ पितापुत्रविरोधे तु साक्षिणां त्रिपणो दमः । अन्तरे च तयोर्यः स्यात्तस्याप्यष्टगुणो दमः ।। २३९ ।। । पितापुत्रयोः कलहे यः साक्ष्यमङ्गीकरोति कलहं । न पुनः निवारयात असा पणत्रयं दण्ड्यः । यश्च तयोः सपणे विवादे पणदाने प्रतिभूर्भवत्यसैौ चकारात्त योर्यः कलहं वर्धयति सोऽपि त्रिपणादष्टगुणं चतुर्विंशतिपणान्दण्डनीयः । दम्प लयांदिष्वयमेव दण्डोऽनुसरणीय ॥ २३९ ॥ तुलाशासनमानानां कूटकृन्नाणकस्य च । एभिश्च व्यवहर्ता यः स दाप्यो दममुत्तमम् ।। २४० ।। तुला तोलनदण्डः । शासनं पुर्वोक्तम् । मानं प्रस्थद्रोणादि । नाणकं मुद्रादि चिह्नितं द्रम्मनिष्कादि । एतेषां यः कूटकृत् देशप्रसिद्धपरिमाणादन्यथा न्यून त्वमाधिक्यं वा द्रम्मादेरव्यवैहारिकमुद्रात्वं ताम्रादिगर्भत्वं वा करोति यश्च तैः कूटैजानन्नपि व्यवहरति तावुभौ प्रलेयकमुत्तमसाहसं दण्डनीयौ ॥ २४० ॥ नाणकपरीक्षिणे प्रत्याह अकूटं कूटकं बूते कूटं यश्चाप्यकूटकम् । स नाणकपरीक्षी तु दाप्य उत्तमसाहसम् ।। २४१ ।। यः पुनर्नाणकपरीक्षी ताम्रादिगर्भमेव द्रम्मादिकं सम्यगेिति बूते सम्यकू वा कूटकमिति असावुत्तमसाहसं दण्डय ॥ २४ १ ॥ विकित्सकं प्रत्याह भिषङ्थ्यिाचरन्र्देण्ड्यस्तिर्यक्षु प्रथमं दमम् । मानुषे मध्यमं राजपुरुषेषुत्तमं दमम् ।। २४२ ।। यः पुनर्भिषक् मिथ्या आयुर्वेदानभिज्ञ एव जीवनार्थ चिकित्सितज्ञोऽहमिति तिर्यङानुष्यराजपुरुषेषु चिकित्सामाचरत्यसौ यथाक्रमेण प्रथममध्यमोत्तमसाह १ अष्टमभागोनं पर्ण मूल्यं ख-घ . २ पादाद्यपचयेन ख. ३ व्यावहारिकमुद्रितत्वं घ ४ चरन्दाप्यः घ. ५ राजमानुषे तूत्तमं घ
पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/२९६
दिखावट