६४ याज्ञवल्क्यस्मृतिः । [ व्यवहाराध्याय परगात्राभिद्रोहे दण्डमुक्त्वानन्तरं बहिरङ्गगर्थनाशे दण्डमाह -- अभिघाते तथा छेदे भेदे कुड्यावपातने । पणान्दाप्यः पञ्चदश विंशतिं तद्ययं तथा ।। २२३ ।। मुद्भरादिना कुड्यस्याभिघाते विदारणे द्विधाकरणे च यथाक्रमं पञ्चपणो दश यणो विंशतिपणश्च दण्डो वेदितव्य । अवपातने पुनः कुङयस्यैते त्रयो दण्डा सैमुचिता ग्राह्याः । पुनः कुड्यसंपादनार्थं च धनं स्वामिने दद्यात् ॥ २३ ॥ दुःखोत्पादि गृहे द्रव्यं क्षिपन्प्राणहरं तथा । षोडशाद्यः पणान्दाप्यो द्वितीयो मध्यमं दमम् ।। २२४ ।। अपिच ! परगृहे दुःखजनकं कण्टकादि द्रव्यं प्रक्षिपन्षोडशपणान्दण्डयः । प्राणहरं पुनर्वेिषभुजङ्गादिकं प्रक्षिपन्मध्यमसाहसं दण्डय ॥ २२४ ॥ पश्चभिद्रोहे दण्डमाह दुःखे च शोणितोत्पादे शाखाङ्गच्छेद्ने तथा । दण्डः क्षुद्रपशूनां तु द्विपणप्रभृतिः ऋक्रमात ।। २२५ ।। क्षुद्राणां पशूनां औजाविकहरिणप्रायाणां ताडनेन दुःखोत्पादने असृक्खावणे शाखाङ्गच्छेदने । शाखाशब्देन चात्र प्राणसंचाररहितं शङ्गादिकं लक्ष्यते । अङ्गानि करचरणप्रभृतीनि । शाखा चाङ्गं च शाखाङ्गं तस्य छेदने द्विपणप्रभृति र्दण्डः । द्वौ पणैौ यस्य दण्डस्य स द्विपणः । द्विपणः प्रभृतिरादिर्यस्य दण्डगण स्यासैौ द्विपणप्रभृतिः । स च दण्डगणो द्विपणश्चतुःपणः षट्पणोऽष्टपण इत्येवं रूपो न पुनर्द्धिपणस्त्रिपणश्चतुष्पणः पञ्चपण इति । कथमिति चेदुच्यते । अपराध गुरुत्वात्तावत्प्रथमदण्डादुरुतरमुपरितनं दण्डत्रितयमवगम्यते । तत्र चाश्रुत त्रित्वादिसंख्याश्रयणाद्वरं श्रुतिद्विसंख्याया एवाभ्यासाश्रयणेन गुरुत्वसंपादनमेिति निरवद्यम् ॥ २२५ ॥ लिङ्गस्य छेदने मृत्यौ मध्यमो मूल्यमेव च । महापशूनामेतेषु स्थानेषु द्विगुणो दमः ।। २२६ ।। किंच तेषां क्षुद्रपशशूनां लिङ्गन्छेदने मरणे च मध्यमसाहसो दण्डः । स्वामिने च मूल्यं दद्यात् । महापशूनां पुनगगजवाजिप्रभृतीनामेतेषु स्थानेषु ताडनलो हितखेंावणादिषु निमित्तेषु पूर्वोक्ताद्दण्डाद्विगुणो दण्डो वेदितव्यः ॥ २६ ॥ स्थावराभिद्रोहे दण्डमाह प्ररोहेिशाखिनां शाखास्कन्धसर्वविदारणे । उपजीव्यदुमाणां च विंशतेद्विगुणो दमः ।। २२७ ।। १ द्वैधीकरणे घ . २ समन्विताः घ. ३ अजाविहरिणानां घ. ४ ख्रिश्चतुःप ख. ५ स्रावणादिनिमितषु ख
पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/२९४
दिखावट