पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/२७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४८ व्यवहाराध्यायः तन्न. त्रिंशत्तमो भागः क्षयो वेदितव्यः । कैौशेये कोशप्रभवे वाल्कलेषु वृक्षत्वड़िर्मितेषु वसनेषु वृद्धिह्मासौ न स्तः किंतु यावद्वयनार्थ कुविन्दादिभ्यो दत्तं तावदेव प्रत्यादेयम् ॥ १८० ॥ द्रव्यानन्यात्प्रतिद्रव्यं क्षयवृद्धिप्रतिपादनाशक्तः सामान्येन हासवृद्धिज्ञानी देशं कालं च भोगं च ज्ञात्वा नष्ट बलाबलम् । द्रव्याणां कुशला बूयुर्यत्तद्दाप्यमसंशयम् ।। १८१ ॥ शाणक्षेौमादौ द्रव्ये नष्टे हासमुपगते द्रव्याणां कुशलाः द्रव्यवृद्धिक्षयाभिज्ञाः देशं कालमुपभोगं तथा नष्टद्रव्यस्य बलाबलं सारासारतां च परीक्ष्य यत्कल्प यन्ति तदसंशयं शिल्पिनो दाप्याः ॥ १८१ ॥ इति क्रीतानुशयप्रकरणम् । अथाभ्युपेत्याशुश्रूषाप्रकरणम् १४ सांप्रतमभ्युपेत्याशुश्रूषाख्यमपरं वेि वादपद्मभिधातुमुपक्रमते । तत्स्वरूपं च नारदेनोक्तम—‘अभ्युपेत्य तु शुश्रूषां यस्तां न प्रतिपद्यते । अशुश्रूषाभ्युपेत्यै तद्विवादपदमुच्यते ॥’ इति । आज्ञाकरणं शुश्रूषा तामङ्गीकृत्य पश्चाद्यो न संपादयति तद्विवादपद्मभ्युपेत्याशुश्रूषाख्यम् । शुश्रूषकश्च पञ्चविधः । शिष्योऽन्तेवासी भृतकोऽधिकर्मकृद्दास इति । तेषामाद्याश्चत्वारः कर्मकरा इत्यु च्यन्ते । ते च शुभकर्मकारिणः । दासाः पुनर्गुहजातादयः पञ्चदशप्रकाराः । गृह द्वाराशुचिस्थानरथ्यावस्करशोधनाद्यशुभकर्मकारिणः । तदिदं नारदेन स्पष्टी कृतम्–“शुश्रूषकः पञ्चविधः शाखे दृष्टो मनीषिभिः । चतुर्विधाः कर्मकरा दासास्त्रिपञ्चकाः ॥ शिष्यान्तेवासिभृतकाश्चतुर्थस्त्वधिकर्मकृत् । एते कर्मकरा ज्ञेया दासास्तु गृहजादयः ॥ सामान्यमस्वतन्त्रत्वमेषामाहर्मनीषिणः । जातिर्कर्मकृतस्तूक्तो विशेषो वृत्तिरेव च ॥ कर्मापि द्विविधं ज्ञेयमशुभं शुभमेव च । अशुभं दासकमत्तं शुभं कर्मकृतां स्मृतम् ॥ गृहद्वाराशुचिस्थानरथ्याव स्करशोधनम् । गुह्याङ्गस्पर्शनोच्छिष्टविण्मूत्रग्रहणोज्झनम् ॥ इच्छतः स्वामिने श्राङ्गरुपस्थानमथान्ततः । अशुभं कर्म विज्ञेयं शुभमन्यद्दतः परम्। ॥’ इति ॥ तत्र शिष्यो वेदविद्यार्थी । अन्तेवासी शिल्पशिक्षार्थी । मूल्येन यः कर्म करोति स भृतकः । कर्मकुर्वतामधिष्ठाताधिकर्मकृत् । अशुविस्थानमुच्छिष्टप्रक्षेपार्थ गर्तादिकम् । अवस्करो गृहमार्जितपांस्वादिनिचैयस्थानम् । उज्झनं त्यागः । भृतंकश्चात्र त्रिविधः । तदुक्तम्—‘उत्तमस्त्वायुधीयोऽत्र मध्यमस्तु कृषी वलः । अधमो भारवाही स्यादित्येवं त्रिविधो भ्रष्टतः ॥’ इति । दासाः पुन १ यावद्वानार्थ घ. २ आज्ञाकारणं ख. ३ श्चाधिकर्मकृत् घ. ४ कर्मकरस्तूतो ख. ५ खामिनः स्वाङ्गे घः ६ निर्वापस्थानम् घ