२१२ याज्ञवल्क्यस्मृतिः । [व्यवहाराध्यायः ऋस्यापत्यस्य बीजिक्षेत्रिणौ भागिनौ स्वामिनौ दृष्टौ महर्षिभिः । तथा (मनु ९॥५२)-“फलं त्वनभिसंधाय क्षेत्रिणा बीजिना तथा । प्रत्यक्ष क्षेत्रिणामर्थ बीजाद्योनिर्बलीयसी ॥’ इति । फलं त्वनभिसंधायेति । अत्रोत्पन्नमपत्यमावयो रुभयोरस्त्वित्येवमनभिसंधा य परक्षेत्रे यदपत्यमुत्पाद्यते तदपत्यं क्षेत्रिण एव । यतो बीजाद्योनिर्बलीयसी । गवाश्वादिषु तथा दर्शनात् । अत्रापि नियोगो वा यदुत्ताविषय एव । इतरस्य नियोगस्य मनुना निषिद्धत्वात् (९॥५९॥६० ) देवराद्वा सपिण्डाद्वा खिया सम्यङ्गियुक्तया । प्रजेप्सिताऽधिगन्तव्या सन्तानस्य परिक्षये ॥ विधवायां नियुक्तस्तु धृतात्क्तो वाग्यतो निशि । एकमुत्पादयेत्पुत्रं न द्वितीयं कथंचन ॥' इत्येवं नियोगमुपन्यस्य मनुः स्वयमेव निषेधति (९॥६४॥ ६८)–‘नान्यस्मिन्विधवा नारी नियोक्तव्या द्विजातिभिः । अन्यस्मिन्हि नियुञ्जाना धर्म हन्युः सनातनम् ॥ नोद्वाहिकेषु मत्रेषु नियोगाः कीलर्यते क्रचित् । न विवाहविधायुक्तं विधवावेदनं पुनः ॥ अयं द्विजैर्हि विद्वद्भिः पशुधर्म विगर्हितः । मनुष्याणामपि प्रोक्तो वेने राज्यं प्रशासति । स महीमखिलाँ भुञ्जन् राजर्षिप्रवरः पुरा । वर्णानां संकरं चक्रे कामोपहतचेतन ॥ ततः प्रभृति यो मोहात्प्रमीतपतिकां स्त्रियम् । नियोजयत्यपत्यार्थे गैर्हन्ते तं हि साधवः ॥ इति ॥ नचव विहितप्रतिषिद्धत्वाद्विकल्प इति मन्तव्यम् । नियोत्कृणां निन्दा श्रवणातू । स्रीधर्मेषु व्यभिचारस्य बहुदोषश्रवणातू, संयमस्य प्रशस्तत्वाच्च । यथाह मनुरेव (५॥१५७)—‘कामं तु क्षपयेद्देहं पुष्पमूलफलैः शुभैः । ननु नामापि गृह्णीयात्पत्यौ प्रेते परस्य तु । ।' इति जीवनार्थ पुरुषान्तराश्रयणं प्रति षिद्धल्य (मनुः ५॥१५८॥१६१)-‘आसीतामरणात्क्षान्ता नियता ब्रह्मचारिणी । यो धर्म एकपलीनां काङ्गन्ती तमनुत्तमम्। । अनेकानि सहस्राणि कौमारब्रह्म चारिणाम् । दिवं गतानि विप्राणामकृत्वा कुलसंततिम् ॥ मृते भर्तरि साध्वी खी ब्रह्मचर्ये व्यवस्थिता । स्वर्ग गाच्छत्यपुत्रापि यथा ते ब्रह्मचारिणः ॥ अपत्यलोभाद्या तु स्त्री भर्तारमतिवर्तते । सेह निन्दामवामोति परलोकान्च ही यते ॥' इति पुत्रार्थमपि पुरुषान्तराश्रयणं निषेधति । तस्माद्विहितप्रतिषिद्धत्वा द्विकल्प इति न युक्तम् ॥ एवं विवाहसंस्कृतानियोगे प्रतिषिद्धे कस्तर्हि धभ्यों नियोग इत्यत आह (मनुः ९॥६९॥७० )-‘यस्या म्रियेत कन्याया वाचा सलेये कृते पतिः । तामनेन विधानेन निजो विन्देत देवरः ॥ यथाविध्यंधिगाम्यैनां शुक्कुवस्रां शुचित्रताम् । मिथो भजेताप्रसवात्सकृत्सकृदृतावृतौ यस्मै वाग्दत्ता कन्या स प्रतिग्रहमन्तरेणैव तस्याः पतिरित्यस्मादेव वचनादव गम्यते । तस्मिन्प्रेते देवरस्तस्य ज्येष्ठः कनिष्ठो वा निजः सोदरो विन्देत परि णयेत् । यथाविधि यथाशास्रमधिगम्य परिणीय अनेन विधानेन घृताभ्यङ्गवा ड़ियमादिना शुक्कुवस्रां शुचित्रतां मनोवाक्कायसंयतां मिथो रहस्यागर्भ ग्रहणात्प्रत्यूत्वेकवारं गच्छेत् । अयं च विवाहो वाचनिको घृताभ्यङ्गादिनिय १ तथानियोगो. ध. २ तं विगर्हन्ति इति मनुस्मृतौ पाठः. ३ विध्यभिगम्यैनां ख
पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/२४२
दिखावट