पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/२२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९२ १० ९ संयुते ॥’ इति पितामहवचनात् । निमझाङ्गं पश्येचेच्छुद्धिमामुयादिति वद ता उन्मजिताङ्गस्याशुद्धिदैर्शिता । स्थानान्तरगमने चाशुद्धिः पितामहेनो क्ता-‘अन्यथा न वेिशुद्धिः स्यादेकाङ्गस्यापि दर्शनात् ।।' इति ‘स्थानाद्वान्यत्र गमनाद्यस्मिन्पूर्वं निवेशितः ।।' इति । एकाङ्गस्यापि दर्शनादिति च कर्णाद्यभि प्रायेण । ‘शिरोमात्रं तु दृश्येत न कणैौं नापि नासिका । अप्सु प्रवेशने यस्य शुद्धं तमपि निर्दिशेत् ।।' इति विशेषाभिधानात् । अयमत्र प्रयोगक्रमः “उक्तलक्षणजलाशयसंनिधावुक्तलक्षणं तोरणं विधाय उक्तप्रमाणे देशे लक्ष्यं नि धाय तोरणसंनिधौ सशरं धनुः संपूज्य जलाशये वरुणमावाह्य पूजयित्वा तत्तीरे धर्मादींश्च देवान्हवनान्तमिष्टा शोध्यस्य शिरसि प्रतिज्ञापत्रमाबध्य प्राड़िवाको जलमभिमत्रयते ‘तोय त्वं प्राणिनां प्राणः' इत्यादिना मत्रेण । अथ शोध्य सत्येन' इत्यादिना मत्रेण जलमभिमन्त्र्य गृहीतस्थूणस्य नाभिमात्रोदका वस्थितस्य बलीयसः पुरुषस्य समीपमुपसर्पति । अथ शरेपु त्रिपु मुक्तषु मध्य मशरपातस्थाने मध्यमं शरं गृहीत्वा जविन्येकस्मिन्पुरुषे स्थिते अन्यसिंमश्च तोर णमूले स्थिते प्राड़िवाकेन तालत्रये दृते युगपद्भमनमज्जनमथ शरानयनमिति याज्ञवल्क्यस्मृतिः । इदानीं वेिषविधानमाह [व्यवहाराध्याय त्वं वेिष ब्रह्मणः पुत्रः सत्यधर्मे व्यवस्थितः । त्रायखास्मादभीशापात्सत्येन भव मेऽमृतम् ।। ११० ।। एवमुक्त्वा विषं शाङ्गं भक्षयेद्धिमशैलजम् । यस्य वेगैर्विना जीर्येच्छुद्धिं तस्य विनिर्दिशेत् ।। १११ ।। त्वं विषेत्यादिमत्रेण विषमभिमध्य कर्ता विषं हिमशैलजं श्रृङ्गभवं भक्षयेत् । तच्च भक्षितं सत् यस्य विषवेगैर्विना जीर्यति स शुद्धो भवति । विपवेगो नाम धातोर्धात्वन्तरप्राप्तिः । “धातोधत्वन्तरप्रासिर्विषवेग इति स्मृतः’ इति वच नात् । धातवश्च त्वगस्टङझांसमेदोस्थिमज्जाशुक्राणीति सप्त । एवंच ससैव विष वेगा भवन्ति । तेषां च लक्षणानि पृथगेव चेिषतत्रे कथितानि–“वेगो रोमा ञ्चमाद्यो रचयति विषजः स्वदवक्रोपशोषे तस्योध्र्वस्तत्परौ द्वौ वपुषि जनयतो वर्णभेदप्रवेपैौ । यो वेगः पञ्चमोऽसौ नयति विवशतां कण्ठभङ्गं च हिक्कां षष्ठो निःश्वासमोहो वितरति च मृतिं सप्तसमो भक्षकस्य ॥' इति । अत्र च महादेवस्य पूँजा कर्तव्या । यथाह नारद –“दद्याद्विषं सोपवासो देवब्राह्मणसंनिधौ । धूपोपहारमत्रैश्च पूजयित्वा महेश्वरम् ॥’ इति । प्राड़िवाकः कृतोपवासो महा देवं पूजयित्वा तस्य पुरतो विषं व्यवस्थाप्य धर्मादिपूजां हवनान्तां विधाय प्रति ज्ञापत्रं शोध्यस्य शिरसि निधाय विषमभिमम्रयते–‘त्वं विष ब्रह्मणा स्पृष्टं परीक्षार्थ दुरात्मनाम्। । पापानां दर्शयात्मानं शुद्धानाममृतं भव १ समीपे सशरं घ. २ पूजा कार्या. . । मुख्युमूर्ते