९४६ याज्ञवल्क्यस्मृतिः । देयं चौरहृतं द्रव्यं राज्ञा जानपदाय तु । अददद्धि समाझेोति किल्बिषं यस्य तस्य तत् ॥ ३६ ॥ चौरैर्हतं द्रव्यं चौरेभ्यो विजित्य जानपदाय स्वदेशनिवासिने यस्य तत् द्रव्यं तम राज्ञा दातव्यम् । हि यस्मात् अददत् अप्रयच्छन् यस्य तदपहृतं द्रव्यं तस्य केिल्बि षमामोति । तस्य चौरस्य च । यथाह मनुः (८॥४०)–“दातव्यं सर्ववर्णेभ्यो राज्ञा चारैर्हतं धनम् । राजा तदुपयुञ्जानश्चौरस्यामोति किल्बिषम् ॥’ इति । यदि चौरहस्तादादाय स्वयमुपभुझे तदा चौरस्य किल्बिषमाभोति । अथ चौर हृतमुपेक्षते तदा जानपदस्य किल्बिषम् । अथ चौरह्मताहरणाय यतमानोऽपि न शकुयादाहर्तु तदा तावद्वनं स्वकोशाद्दद्यात् । यथाह गौतमः–“चौरह्मत मवजित्य यथास्थानं गमयेत्कोशाद्वा दद्यातू’ इति । कृष्णद्वैपायनोऽपि
- प्रत्याहर्तु न शक्तस्तु धनं चोरेर्हतं यदि । स्वकोशात्तद्धि देयं स्यादशाक्तन
महीक्षिता ॥' इति ॥ ३६ ॥ इति असाधारणव्यवहारमातृकाप्रकरणम् । [ व्यवहाराध्यायः साधारणासाधारणरूपां व्यवहारमातृकामभिधायाधुनाष्टादशानां व्यवहार पदानामाद्यमृणादानपदं दर्शयति-“अशीतिभागो वृद्धिः स्यात्' इत्यादिना, मोच्य आधिस्तदुत्पन्ने प्रविष्टे द्विगुणे धने' इत्येवमन्तेन । तच्च ऋणादानं सप्त विधम् । ईदृशमृणं देयं, ईदृशमदेयं, अनेनाधिकारिणा देयं, अस्मिन् समये देयं, अनेन प्रकारेण देयमित्यधर्मेण पञ्चविधम् । उत्तमणे दानविधिः, आदान विधिश्चेति द्विविधमिति । एतच्च नारदेन स्पष्टीकृतम्–‘ऋत्णे देयमदेयं च येन यत्र यया च यत् । दानग्रहणर्धर्माभ्यामृणादानमेिति स्मृतम् ।।' इति । तत्र प्रथममुत्तमर्णस्य दानविधिमाह, तत्पूर्वकत्वादितरेषाम् अशीतिभागो वृद्धिः स्यान्मासि मासि सबन्धके । वर्णक्रमाच्छतं द्वित्रिचतुःपञ्चकमन्यथा ।। ३७ ।। मासेि मासि प्रतिमासं बन्धकं विश्वासार्थ यदाधीयते आधिरिति यावत् । बन्धकेन सह वर्तत इति सबन्धक प्रयोगस्तस्मिन्सबन्धके प्रयोगे प्रयुक्तस्य द्रव्यस्य अशीतितमो भागो वृद्धिर्धम्र्या भवति । अन्यथा बन्धकरहिते प्रयोगे वर्णानां ब्राह्मणादीनां क्रमेण द्वित्रिचतुःपञ्चकं शतं धम्र्यं भवति । ब्राह्मणेऽधमणें द्विकं शतं, क्षत्रिये त्रिकं, वैश्ये चतुष्कं, शूद्रे पञ्चकं, मासिमासीत्येव द्वौ वा १ तदुपभुञ्जानः ग. घ. २ व्यवहाराणामाद्य ध. ४ धमॉश्च कणादान. ख. ग ३ इदं पद्यमग्रे ६४ तमं द्रष्टव्यम्.