पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/१३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१००
[ आचाराध्यायः
याज्ञवल्क्यस्मृतिः।


 पात्रे निक्षिप्य किं कुर्यादित्याह -

दत्त्वा भूमिं निबन्धं वा कृत्वा लेख्यं तु कारयेत् ।
आगामिभद्रनृपतिपरिज्ञानाय पार्थिवः ।। ३१८ ।।

 यथोक्तविधिना भूमेिं दत्त्वा स्वत्वनिवृत्तिं कृत्वा निर्बन्धं वः एकस्य भाण्डभ रकस्येयन्तो रूपकाः, एकस्य पर्णभरकस्येयन्ति पर्णानीति वा निबन्धं कृत्वा लेख्यं कारयेत् । किमर्थम् । आगामिनः एष्यन्तो ये भद्राः साधवो नृपतयो भूपास्त षामनेन दत्तमनेन प्रतिगृहीतमिति परिज्ञानाय । पार्थिवो भूपतिः । अनेन भूप तेरेव भूमिदाने निबन्धदाने वाऽधिकारो न भोगपतेरिति दर्शितम् ॥ ३१८ ॥
लेख्यं कारयेदित्युक्तं कथं कारयेदित्याह--

पटे वा ताम्रपद्वे वा खमुद्रोपरिचिद्वितम् ।
अभिलेख्यात्मनो वंश्यानात्मानं च महीपतिः ।। ३१९ ॥
प्रतिग्रहपरीमाणं दानच्छेदोपवर्णनम् ।
स्वहस्तकालसंपन्नं शासनं कारयेत्स्थिरम् ॥ ३२० ।।

 कापसिके पटे ताम्रपटे फलके वा आत्मनो वश्यान्प्रपितामहपितामहपि तृन् । बहुवचनस्यार्थवत्त्वाय वंशवीर्यश्रुतादिगुणोपवर्णनपूर्वकमभिलेख्य आत्मानं न्वशब्दात्प्रतिग्रहीतारं प्रतिग्रहपरिमाणं दानच्छेदोपवर्णनं चाभिलेख्य । प्रतिगृ ह्यत इति प्रतिग्रहो निबन्धस्तस्य रूपकादिपरिमाणम् । दीयत इति दानं क्षेत्रादि तस्य छेदः छिद्यतेऽनेनेति छेदः नैद्यावाटी निवर्तनं तत्परिमाणं च तस्योपवर्णनं अमुकनद्या दक्षिणतोऽयं ग्रामः क्षेत्रं वा, पूर्वतोऽमुकग्रामयैतावन्निवर्तनमित्या दिनिवर्तनपरिमाणं च लेख्यम् । एवं आवाटस्य नदीनगरवत्र्मादेः संचारित्वेन भूमेन्यूनाधिकभावसंभवात्तन्निवृत्त्यर्थम्, स्वहस्तेन स्वहस्तलिखितेन मतं मे अमु कनास्रः अमुकपुत्रस्य यदत्रोपरि लेखितमित्यनेन संपन्न युक्त, कालेन च द्विवि धेन शकनृपातीतरूपेण संवत्सररूपेण च कालेन चन्द्रसूर्योपरागादिना संपन्न स्वमुद्रया गरुडवाराहादिरूपयोपरि बहिश्चिह्नितमङ्कितं स्थिरं दृढं शासनं शि ध्यन्ते भविष्यन्तो नृपतयोऽनेन दानाच्छेयोऽनुपालनमिति शासनं कारयेत् । महीपतिर्न भोगपतिः । संधिविग्रहादिकारिणा नै येन केनचित् ।–“संधिविग्र हकारी तु भवेद्यस्तस्य लेखक । स्वयं राज्ञा समादिष्टः स लिखेद्राजशासनम् ।।' इति स्मरणात् । दानमात्रेणैव दानफले सिद्धे शासनकरणं भोगाभिवृद्धया फला-तिशयार्थम्॥ ३१९॥ ३२०॥
 इदानीं राज्ञो निवासस्थानमाह -

रम्यं पशव्यमाजीव्यं जाङ्गलं देशमावसेत् ।
तत्र दुर्गाणि कुंवत जनकोशात्मगुप्तये ।। ३२१ ।।


१ अस्मिन्प्रामे प्रतिक्षेत्रं क्षेत्रस्वामनैतद्धनमसै प्रत्यब्दं प्रतिमासं वा देयमित्येवमादिनि यमो निबन्धः इति अपरार्कः. २ ताम्रफलके वा. ग. ३ नद्याघाटी ग. ४ निवर्तनपरिमाणं च क. ५ शास्यन्ते ग. ६ नान्येन गा