कृताकृतांस्तन्दुलांश्च पललौदनमेव च ।
मत्स्यान्पकांस्तथैवामान्मांसमेतावदेव तु ।। २८७ ।।
पुष्पं चित्रं सुगन्धं च सुरां च त्रिविधामपि ।
मूलकं पूरिकांपूपांस्तथैवोण्डेरकस्रजः ।। २८८ ।।
दध्यन्नं पायसं चैव गुडपिष्टं समोदकम् ।
एतान्सर्वान्समाहृत्य भूमौ कृत्वा ततः शिरः ।। २८९ ।।
विनायकस्य जननीमुपतिष्ठत्ततोऽम्बिकाम् ।
कृताकृताद्युपहारद्रव्यजातं विनायकस्योपाहृत्य संनिधानात्तज्जनन्याश्च शिरसा
भूमिं गत्वा–‘तत्पुरुषाय विद्महे वक्रतुण्डाय धीमहि । तन्नो दन्ती प्रचोदयात्’
इत्यनेन मत्रेण विनायकं–“सुभगायै विद्महे काममालिन्यै धीमहि । तन्नो
गौरी प्रचोदयात्’ इत्यनेनाम्बिकां च नमस्कुर्यात् । तत उपहारशेषमास्तीर्णकुशे
शूपें निधाय चतुष्पथे निदध्यात्–“बलिं गृह्णन्त्विमं देवा आदित्या वसवः
स्तथा । मरुतश्चाश्विनौ रुद्राः सुपर्णाः पन्नगा ग्रहा ॥ असुरा यातुधानाश्च
पिशाचोरगमातरः । शाकिन्यो यक्षवेताला योगिन्यः पूतनाः शिवाः ॥ जुम्भका
सिद्धगन्धर्वा मायाविद्याधरा नराः । दिक्पाला लोकपालाश्च ये च विश्ववि
नायकाः ॥ जगतां शान्तिकर्तारो ब्रह्माद्याश्च महर्षयः । मा विद्रो मा चव मे पापं
मा सन्तु परिपन्थिन । सेौम्या भवन्तु तृप्ताश्च भूतप्रेताः सुखावहा ॥' इत्येते
मैत्रैः ॥ कृताकृता सकृद्वहतास्तन्दुलाः । पललं तिलपिष्टं तन्मिश्र ओदनः पलली
दनः । मत्स्याः पछा अपञ्चाश्च । मांसमेतावदेव पञ्चकमपकं च । पुष्पं चित्रं रक्तपीता
दिनानावर्णम् । चन्दनादि सुगन्धिद्रव्यम् । सुरा त्रिविधा गौडी माध्वी पैष्टी च ।
मूलकं मूलकः कन्दाकारो भक्ष्यविशेषः । पूरिका प्रसिद्धा । अपूपोऽस्त्रहपन्नो
गोधूमविकारः । उण्डेरकस्रजः उण्डेकाः पिष्टादिमयस्ताः प्रोताः स्रजः । दध्यन्तं
दधिमिश्रमन्ने । पायसं झैरेयी। गुडपिटंगुडमिश्र शाल्यादिपिष्टम्। मोदकाः लहुकाः।
अनन्तरं विनायकं तज्जननीमम्बिकां वक्ष्यमाणमत्रेणोपतिष्ठत् ॥ २८६ -२८९ ॥
किं कृत्वेत्याह--
दूर्वासर्षपपुष्पाणां दत्त्वाध्यै पूर्णमञ्जलिम् ।। २९० ।।
सकुसुमोदकेनाध्यै दत्त्वा दूर्वसर्षपपुष्पाणां पूर्णमञ्जलिं दत्वोपतिष्ठदिति गतेन
'सबन्धः ॥ २९० ॥
उपस्थानमत्रमाह--
रूपं देहि यैशो देहि भगं भैगवन् देहि मे ।
पुत्रान्देहि धनं देहि सर्वकामांश्च देहि मे ।। २९१ ।।
१ पूष्पं तथैव. ख. २ पिशाचा मातरोरगाः. क. ३ माला विद्या. क. ४ पललं पिष्टं क. ५ उण्डेरकाः क्षुद्रापूपा इति कौस्तुभे. ६ जयं देहि. ग. ७ भगवति. ख.