पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/११८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८८
[ आचाराध्यायः
याज्ञवल्क्यस्मृतिः

‘मासवृद्धयाभितृप्यन्ति दतैरिह पितामहाः’ इत्यनेन पितृणां श्राद्धेन तृप्ति र्भवतीत्युक्त तदनुपपन्नम् । प्रातिस्विकशुभाशुभकर्मवशेन स्वर्गनरकादिगतानां मनुष्याणां पुत्रादिभिर्दतैरन्नपानादिभिस्तृस्यसंभवात् । संभवेऽपि स्वयमात्मनाप्यनीशाः कथं स्वर्गादिफलं प्रयच्छन्तीत्यत आह--

वसुरुद्रादितिसुताः पितरः श्राद्धदेवताः ।
प्रीणयन्ति मनुष्याणां पितृन्श्राद्धेन तर्पिताः ।। २६९ ।।
आयुः प्रजां धनं विद्यां खर्ग मोक्षं सुखानि च ।
प्रयच्छन्ति तथा राज्यं ग्रीता नृणां पितामहाः ।। २७० ।।

नह्यत्र देवदत्ताद्य एव श्राद्धकर्मणि संप्रदानभूताः पित्रादिशब्दैरुच्यन्ते किंत्वधिष्ठातृवस्वादिदेवतासहिता एव । यथा देवदत्तादिशब्देर्न शरीरमात्रं ना प्यात्ममात्रं किंतु शरीरविशिष्टा आत्मान उच्यन्ते, एवमधिष्टातृदेवतासहिता एव देघदत्तादयः पित्रादिशब्दैरुच्यन्ते । अतश्चाधिष्टातृदेवता वस्वादयः पुत्रा दिभिर्दत्तेनान्नपानादिना तृसाः सन्तस्तानपि देवदत्तादींस्तर्पयन्ति कर्तृश्श्च पुत्रा दीन्फलेन संयोजयन्ति । यथा माता गर्भपोषणायान्यदत्तन दोहदान्नपानादिना स्वयमुपभुक्तन तृप्ता सती स्वजठरगतमप्यपत्यं तर्पयति दोहदान्नादिप्रदायिनश्च प्रत्युपकारपकलन संयोजयति तद्वद्वसवो रुद्रा अदितिसुताः आदित्या एव ये पितरः पितृपितामहप्रपितामहशब्दवाच्याः न केवलं देवदत्तादय एव श्राद्धदे वताः श्राद्धकर्मणि संप्रदानभूताः किंतु मनुष्याणां पितृन्देवदत्तादीन्स्वयं श्रा द्वेन तर्पितास्तर्पयन्ति ज्ञानशक्तयतिशययोगेन । किंच न केवलं पितूंस्तर्पयन्ति अपितु श्राद्धकारिभ्यः आयुः प्रजां धनं विद्यां स्वर्ग मोक्ष सुखानि राज्यं च । चकारात्तत्र तत्र शास्रोक्तमन्यदपि फलं स्वयं प्रीताः पितामहा वस्वादयः प्रयच्छन्तीति ॥ २६९ ॥ २७० ॥

इति श्राद्धप्रकरणम् ।



अथ गणपतिकल्पप्रकरणम् ११


दृष्टादृष्टफलसाधनानि कर्माण्यभिहितान्यप्यभिधास्यन्ते च तेपां स्वरूपनिष्पत्तिः फलसाधनत्वं चाविज्ञेन भवतीत्यविन्नार्थं कर्म विधास्यन् वेिन्नस्य कारकज्ञापकहेतूनाह--

विनायकः कर्मविश्वसिद्धयर्थ विनियोजितः ।
गंगणानामाधिपत्ये च रुद्रेण ब्रह्मणा तथा ।। २७१ ।।

विनायकः, कर्मविश्वसिद्धयर्थमेित्यादिनोभयविन्नहेतुपरिज्ञानाद्विश्वस्य प्राग्भावपरिपालनायोपस्थितस्य प्रध्वंसाय वा प्रेक्षापूर्वकारिणः प्रवर्तन्ते । रोगस्येवोभ-


१ शुभाशुभफलकूर्मविशेषेण ग. २ गर्भधारणपोषणाय ग.