सामग्री पर जाएँ

पृष्ठम्:मेघसन्देशः - दक्षिणावर्तनाथः - १९१९.djvu/39

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

सान्तर्हासं कथितमसकृत् पृच्छ्तश्च त्वया मे

दृष्टः स्वप्ने कितव ! रमयन् कामपि त्वं मयेति॥

भूय इति । भूयश्चाह इति पाठः । भूयश्चाह पुनरपि मन्मुखेनाहेत्यर्थः । मन्मुखेनेदमाह इत्युक्तत्वात् ! त्वमसीति पाठः । सस्वरं सशब्दम् । कितव ! धूर्त ! अयमर्थः – निद्रासमये रुदित्वा सशब्दं प्रबुद्धासि । किमिति बहुशः पृच्छतो मे कितव ! स्वप्ने त्वं कामपि रमयन् मया दृष्ट इति सान्तर्हासं पुरा त्वया कथितमिति ते प्रियतमो भूयश्च मन्मुखेनेदमभिज्ञानमाहेति ॥४४॥

एतस्मान्मां कुशलिनमभिज्ञानदानाद् विदित्वा

मा कौलीनादसितनयने ! मय्यविश्वासिनी भूः ।
स्नेहानाहुः किमपि विरहे ह्रासिनास्ते ह्यभोगा-

दिष्टे वस्तुन्युपचितरसाः प्रेमराशीभवन्ति॥४५॥

एतस्मादिति । अभिज्ञानदानाद् अभिज्ञानस्य वाचा प्रदानात् । कौलीनाल्लोकवादाद्, एतावता कालेन तव भर्ता परासुः स्यान्नोचेदागमिष्यतीति जनवादादित्यर्थः । असितनयने !, इदमप्यभिज्ञानम् । कौलीनान्मय्यविश्वासिनी मा भूः इत्यर्थः । एतावन्तं कालं विरहितयोरावयोः स्नेहा विगलन्तीत्याह – स्नेहानाहुः किमपि विरहे ह्रासिन इति । स्नेहान् विरहे हासिन इत्याहुः । तत् किमपि किञ्चिदतितुच्छमित्यर्थः । प्रत्युत स्नेहा विरहे वर्धन्ते इति स्वमतेनाह – ते ह्मभोगादिति । अभोगाद् भोगालाभात् । वस्तुनि प्रयोजनादिविषये । उपचितरसा उपचितश्रृङ्गारादिरसाः । ते स्नेहाः इष्टे वस्तुनि भोगालाभादेव उपचितरसाः प्रेमराशीभवन्तीत्यर्थः । ननु ‘प्रेमा ना प्रियता हार्दम्’ इत्यमरसिंहवचनात् प्रेमस्नेहयोरैक्यं प्रतीयते । कथं तयोर्भेदवचनमिति । उच्यते । स्नेहादन्यत् प्रेम । यथाहुरलङ्कारविदः – –-

उत्तरसन्देशः

६९


"अवलोकनाभिलाषौ रागस्नेहौ ततः प्रेम ।
रतिश्रृङ्गारौ योगे वियोगगतो विप्रलम्भश्च" ॥

इति ॥४५॥

[आश्वास्यैवं प्रथमविरहोदग्रशोकां सखीं ते

शैलादाशु त्रिनयनवृषोत्खातकूटान्निवृत्तः ।
साभिज्ञानप्रहितकुशलैस्तद्वचोभिर्ममापि
प्रातः कुन्दप्रसवशिथिलं जीवितं धारयेथाः॥]
इदानीं मेघं स्तौति-
कच्चित् सौम्य ! व्यवसितमिदं बन्धुकृत्यं त्वया मे
प्रत्यादेशान्न खलु भवतो धीरतां कल्पयामि ।
निःशब्दोऽपि प्रदिशसि जलं याचितश्चातकेभ्यः
प्रत्युक्तं हि प्रणयिषु सतामीप्सितार्थक्रियैव॥४६॥

कच्चिदिति । इदं बन्धुकृत्यं त्वया व्यवसितं कच्चिदित्यन्वयः । अहं करिष्यामीति प्रत्युत्तरं न ब्रूषे । तथाप्यन्येषामिव प्रत्युत्तरप्रदानात् तव धैर्यं न कल्पयामीत्याह – प्रत्यादेशादिति । आदेशो वचनं, प्रत्यादेशः प्रतिवचनम् इत्युत्तरं विनापि भवतो धीरतां कल्पयामीत्यभिप्रायः । यद्यपि प्रत्यादेशशब्दः प्रत्याख्यानवचनः, तथाप्यत्र प्रतिवचनवाचको भवति प्रत्युक्तमिति वक्ष्यमाणत्वात् । उक्तमर्थमुपपादयति – निश्शब्दोऽपीति । अनेन निरुत्तरत्वं विवक्षितम् । प्रत्युक्तं प्रतिवचनम् । प्रणयिषु प्रार्थयमानेषु । सतामुत्तमानाम् । ईप्सितार्थक्रिया ईप्सितार्थसम्पादनम् । प्रणयिषु ईप्सितार्थादनतिर्वृत्तिरेव प्रतिवचनं भवतीत्यर्थः ॥४६॥

<poem>

एतत् कृत्वा प्रियमनुचितप्रार्थनावर्त्मनो मे

सौहार्दाद् वा विधुर इति वा मय्यनुक्रोशबुद्ध्या ।