पृष्ठम्:मेघसन्देशः - दक्षिणावर्तनाथः - १९१९.djvu/36

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

अव्यापन्नः कुशलमबले ! पृच्छति त्वां वियुक्तः

पूर्वाशास्यं सुलभविपदां प्राणिनामेतदेव॥३४॥

तामिति । आयुष्मन्नित्यनेन त्वयि जीवति साहं च जीवा (ब)[१] इत्युक्तम् । आत्मनश्चोपकर्तुरिति पाठः । उपकर्तुरुपकारिणः । मम वचनाच्चायुष्मन् ! उपकारिणस्तव वचनाच्च तामेवं ब्रूया इत्यर्थः । मेघवचनप्रकारमाह – तव सहचरो रामगिर्याश्रमस्थ इति । आश्रमपदं तत्रापि तपस्विप्राय एव वर्तते इति द्योतयितुं प्रयुक्तम् । अत्रेदमनुसन्धेयं – तव सहचर इत्यादि मन्मुखेनेदमाह इत्यन्तं वाक्यजातं मेघस्य वचनम् । अतः परं श्यामास्वङ्गमित्यादिवचनं यक्षस्य चेति । पूर्वाशास्यं सुलभविपदां प्राणिनामेतदेवेति, स्वयमव्यापन्नः सन् प्रियजनं प्रति कुशलप्रश्नं करोतीति यद् एतदेव सुलभविपदां प्राणिनां प्रथमप्रार्थनीयमित्यर्थः ॥३४॥


अङ्गेनाङ्गं तनु च तनुना गाढतप्तेन तप्तं
सास्रेणास्त्रद्रुतमविरतोत्कण्ठमुत्कण्ठितेन ।
उष्णोच्छ्वासं समधिकतरोच्छ्वासिना दूरवर्ती

सङ्कल्पैस्तैर्विशति विधिना वैरिणा रुद्धमार्गः॥३५॥

अङ्गेनेति । अङ्गेन शरीरेण । कीदृशेन शरीरेण कीदृशमित्यपेक्षायामाह – तनु च तनुनेति । चकारः प्रतिविशेषणमाख्यातसम्बन्धं कर्तुं प्रयुक्तः । अङ्गस्य तनुत्वे निदानमाह –गाढतप्तेन तप्तमिति । तापस्य किमभिव्यञ्जकमित्यपेक्षायामाह – सास्रेणेति । आस्रद्रुतमिति पाठः । द्रुतास्रमित्यर्थः । आहिताम्न्यादिषु पाठात् साधुत्वम् । आस्रस्य किं निमित्तमित्यपेक्षायामाह – अविरतोत्कण्ठमुत्कण्ठितेन । आत्मधर्मा अप्युत्कण्ठादयः शरीरेऽपि प्रयुज्यन्ते । उक्तं च – त्वय्यायत्तं कृषिफलमिति भ्रूविकारानभिज्ञैरिति । उत्कण्ठायाः किमभिव्यञ्जक- –-

उत्तरसन्देशः

६३


मित्यपेक्षायामाह- उष्णोच्छ्वासमिति । समधिकखरोच्छ्वासिनेति पाठः । खरमुष्णम् ।

"तिग्मं तीव्रं खरं तीक्ष्णं चण्डमुष्णं पटु स्मृतम्"

इति भट्टहलायुधः । उच्छ्वासशब्देन निःश्वासो विवक्षितः । सङ्कल्पैस्तैरिति । सङ्कल्पैर्मानसकर्मीभूतैस्तनुत्वतापादिविशिष्टैः शरीरावस्थान्तरैः । किमर्थमेवं करोतीत्याशङ्क्याह- विधिना वैरिणा रुद्धमार्ग इति ॥३५॥

शब्दाख्येयं यदपि किल ते यः सखीनां पुरस्तात्

कर्णे लोलः कथयितुमभूदाननस्पर्शलोभात् ।
सोऽतिक्रान्तः श्रवणविषयं लोचनाभ्यामदृष्ट-

स्त्वामुत्कण्ठाविरचितपदं मन्मुखेनेदमाह॥ ३६ ॥

शब्देति । शब्दाख्येयं शब्दा एवाख्येयमभिधेयं यस्य तच्छब्दाख्येयं निरर्थकमित्यर्थः । सखीनां पुरस्तादिति वचनं जनाकीर्णत्वान्निर्व्याजाननस्पर्शदौर्लभ्यादुक्तम् । श्रवणविषयं श्रवणदेशम्, अन्योन्यवार्ताश्रवणदेशमित्यर्थः । उत्कण्ठाविरचितपदम् उत्कण्ठामधिकृत्य विरचितशब्दमित्यर्थः । इदं वक्ष्यमाणं वाक्यजातम् ॥३६॥ अतः परं चतुर्भिः श्लोकैर्विरहिणां कामतन्त्रोक्तानि विरहिणीसदृशावलोकनचित्रकर्मस्वप्नसमागमतदङ्गस्पृष्टस्पर्शनानि चत्वारि विनोदनान्युक्तानीत्यनुसन्धेयम् । यथा गुणपताकायां –

"वियोगे चायोगे प्रियजनसदृक्षानुगमनं[२]

ततश्चित्रालोकं स्वपनसमये दर्शनमपि । तदङ्गस्पृष्टानामुपगतवतां स्पर्शनमिति

प्रतीकारः कामव्यथितमनसां कोऽपि गदितः" ॥

इति । तेषु प्रियासदृशावलोकनमाह –

  1. १. 'वित इ' क. पाठः.
  2. १. 'भवनं' ख. पाठः.