इति ।
मध्येक्षामा, ‘अमूर्धमस्तकात् –’ (६.३.१२) इत्यलुक् । क्षामा क्षीणा [१]। चकितहरिणीप्रेक्षिणीति पाठः । ‘कर्तर्युपमाने’ (३.२.७९) इति णिनिः । तत्र तस्मिन् भवने । स्याद्, आख्यातप्रतिरूपमव्ययमिदं यद्यर्थे वर्तते । तथा श्रीरामायणे प्रयोगश्च – "पठन् द्विजो वागृषभत्वमीयात् स्यात् क्षत्रियो भूमिपतित्वमीयात्" इति । युवतिविषये युवतिपक्षे, युवतिगोचर इत्यर्थः । आद्या प्रथमा । धातुः प्रथमाया युवतिसृष्टेरादरेण[२] निर्मितत्वात् तद्रामणीयकमस्तीति भावः । एवंरुपा तस्मिन् भवने यद्यस्ति[३], तां जानीया इत्युत्तरत्र सम्बन्धः ॥१५॥
तां जानीयाः परिमितकथां जीवितं मे द्वितीयं
दूरीभूते मयि सहचरे चक्रवाकीमिवैकाम् ।
गाढोत्कण्ठां गुरुषु दिवसेष्वेषु गच्छत्सु बाला
तामिति । परिमितकथां स्वभावतः स्वल्पभाषिणीम् दूरीभूते दूरस्थे । सहचरे चक्रवाकीमिवैकामिति वाक्यच्छेदः । सहचरे चक्रवाके दूरीभूत इत्यर्थः । अस्यार्थस्य मूलं "सहचररहितेव चक्रवाकी जनकसुता कृपणां दशां प्रपन्ना" । इति श्रीरामायणवचनम् । एकामसहायाम् । पूर्वोक्तानां लक्षणानामन्यथाभावमाशङ्क्याह – गाढोत्कण्ठेति । शिशिरमथिता हिमसंपर्कविशीर्णा । अन्यरूपा नष्टशोभा । अस्यार्थस्य मूलं ‘हिमहतनलिनीव नष्टशोभा’ इति वचनम् । अनेन श्रीरामायणवचनार्थानुसारेण कवेः पूर्वोक्तो राम्कथाभिलाषः स्पष्टः ॥१६॥
सर्वेषामङ्गानां प्रघानभूतस्य मुखस्यान्यरूपत्वमाह -
–-
५३
निःश्वासानामशिशिरतया भिन्नवर्णाधरोष्ठम् ।
हस्तन्यस्तं मुखमसकलव्यक्ति लम्बालकत्वा-
नूनमिति । नूनं वितर्के । प्रबलरुदितोच्छूननेत्रं भूयिष्ठरोदनोच्छ्वसितनेत्रम् । उच्छूनं, 'टुओश्वि गतिवृद्धयोः’ इति धातोर्निष्ठानत्वे ‘वचिस्वपि –’ (६.१.१५) इत्यादिना संप्रसारणे कृते रूपमिदम् । असकलव्यक्ति अस्पष्टसकलप्रदेशम् । त्वदुपगमनक्लिष्टकान्तेरिति मेघसम्बन्धः । मेघसंवृतत्वमलकलम्बनस्थानीयम् ॥१७॥ तां ज्ञातुं लक्षणान्तराण्याह –
मत्सादृश्यं विरहतनु वा भावगम्यं लिखन्ती ।
पृच्छन्ती वा मधुरवचनां शारिकां पञ्जरस्थां
आलोक इति । आलोके दर्शने । ‘आलोको दर्शनोदद्योतावि’-त्यमरः । पुरा, भविष्यत्कालद्योतकमव्ययमिदम् । पुरा निपततीति निपतिष्यतीत्यर्थः । त्वां दृष्ट्वा सा भृशं मद्विरहाद् भूमौ निपतिष्यतीति यावत् । अस्मिन्नर्थे लिङ्गं- ‘तामुन्निद्रामवनिशयनाम्’ इति वक्ष्यमाणवचनम् । अथवा त्वद्दर्शनात् पुरा वक्ष्यमाणान् कुर्वती सा तवालोके भूमौ निपततीत्यर्थः । बलिव्याकुला, अत्र प्रियतमागमनार्थं देवताभ्यो बलिप्रदानं विवक्षितम् । तथा सप्तशत्यां – [४]"णेच्छइ पासासङ्की काओ दिण्णं पि पहिअवहुआए । ओअन्तकरअळोज्झिअवळअअमज्झट्ठिअं पिण्डं" ॥
इति । मत्सादृश्यं मत्प्रतिकृतिं मद्विषयमालेख्यम् । ‘आलेख्येऽपि च